________________
श्रीपाण्डव
चरित्रम् ॥ सर्गः ५ ॥
।। ७३ ।।
मारब्धवान् सुवीः || १३४ ॥ तस्मिन मनागसंपूर्ण निर्माणे जायकर्मणि । आविर्वभूवुः क्रव्यादा, व्यादाय मुखमुल्बणम् ॥ १३५ ॥ मांसखण्डानि वन्तः स्वादयन्तोऽगासवम् । सागृहासमटीकेन्त, साटोपाः केऽपि तत्पुरः || १३६ ॥ कर्तिकामिः पुरस्तस्य, दारं दारं शवोदरम् । चित्राभिरन्त्रमालाभिः केऽपि हारं वितेनिरे ॥ १३७ ॥ केचित्तुङ्गमातङ्ग-रूपाः कोपान्चचेतसः । तत्संमुखमधादन्त, दन्तक्रीडाविधित्सया || १३८ || केऽपि कण्ठीरवीभूय, भूयोभूयस्तलं भुवः घोरक्ष्वेडारवा रौद्रैः, पुच्छाघातैरताडयन् ॥ १३९ ॥ विसङ्कटस्फुटाभोगा, भुजङ्गमवपुर्भुतः । भोगैरावेष्टयामासु-राविष्टाः केऽपि तद्वपुः ॥ १४० ॥ कदाऽप्यागत्य केऽप्यूचु-स्वानयनहेतवे । कुरूणामग्रणीर्देवः, स्नेहेन प्रजिघाय नः ॥ १४१ ॥ केचिदम्यधुरम्येत्य त्वदीयविरहातुरा | नित्यमभ्रूणि मुञ्चन्ती, कुन्ती निर्मम । ताम्यति ।। १४२ || ऊचुः केचिदपि स्वमे, त्वदालिङ्गनमङ्गलम् । प्राप्य पश्चादपश्यन्ती, कृष्णा व विद्यतेतमाम् ॥ १४२ ॥ इत्याद्युपद्रवैस्तैस्तैः कोटिशः पिशिताशिनाम् । प्रतीपैरप्रतीयैश्व, चकम्पे न कपिध्वजः || १४४ || विधौ पाण्मासिके तस्मिन् परिपूर्तिमुपेयुधि । ध्यानासीनस्य तस्थाविरासीत् काऽपि सुराङ्गना || १४५ ॥ साऽब्रवीन्नन्वितो दृष्टि - विष्टपाश्रय ! दीयनाम् । देव्यो विज्ञापयन्त्यष्टौ त्वां प्रज्ञप्तिपुरःसराः || १४६ ॥ लोकाद्भुतैर्भवत्सन्ध-चेष्टितैस्तो पिता वयम् । अन्तर्विचिन्त्य तद् ब्रूहि किं नाम तव कुर्महे ? ॥ १४७ ॥ अयोन्मील्य दशौ सत्यं, तदे (द) बेत्यार्जुनोऽभ्यधात् । कुमारमणिचूडोऽयं, भगवत्यनुगृह्यताम् ॥ १४८ ॥ सा विहस्य पुनः ग्राह, परोपकृतिकर्मठ ! । नन्देतदेव ते सच्वं देवतावोषहेतवे ।। १४९ ।। किं तु क्रमोऽयमस्माक माराध्यति य एव नः । कामं तस्यैव तुभ्यामो,
१ रुधिरमथम् । २ अचरन् । ३ मांसाशिनां राक्षसानाम् ।
अर्जुनस्य विद्या
साधनम् ॥
॥ ७३ ॥