________________
142
तत्र प्रदक्षिणीकृत्य, त्रियुगादिजिनेश्वरम् । बद्धरोमाश्चमभ्यर्च्य, म तुष्टावेति तुष्टिमान् ।। ८९ ॥ जय नाभिकुलक्षीर-नीराकरनिशाकर। जयाशेषजगदुःख-निदाघजलदागम ! 1॥९॥ देव ! संसारकान्तार-पर्यन्तपुरपादपाः | पादास्तव भवक्लान्तिबिच्छेदाय भवन्तु मे ।।९।। इत्यभिष्टुत्य नामेयं, निकेतं परितोऽपि तत् । विलोक्य कलयामास, बीभत्सुनयनोत्सवम् ॥९२१॥
गिरेरधित्यकाराम-रामणीयकलोलुपम् । चक्षुर्विनोदयन् यावत् , पार्थः प्रस्थान्तरं ययौ ॥ ९३ ।। तावन्मुहुर्मुहुर्मीलिं, खेलयन्त्या पदाम्बुजैः । अङ्गुलीवंदने दैन्यात् , प्रक्षिपन्या मुहुर्मुहुः ॥ ९४ ॥ मुहुर्मुर्वितन्त्रत्या, प्रीत्या चाटूनि कोटिशः। उत्तरीयपटप्रान्त-मारूपन्त्या मुहुर्मुहुः ॥ ९५ ।। कयाचिद्योषिता रुद्ध-स्वैरचारं पदं पदे । युवानमेकमैत्रिष्ट, गत्वाऽभाषिष्ट चादरात् ॥ ९६ ॥ (त्रिमिर्विशेषकम् ) तब प्रसादनप्रवा-मिमामत्यन्तदुःस्विताम् । किं नाम भद्र! कल्याणी, त्वमेत्रमवम- | न्यसे ।। ९७ ॥ प्ररूदप्रणयं सन्तो, नान्यमप्यवजानते । किं पुनः प्रेमसर्वस्व-विक्लेवामबलां कचित् ।। ९८ ।। एतस्यामाकृतौ शके, न व्यलीकलवं कचिन् । कभ्यता यदि नाकथ्य, तदस्यां कोपकारणम् ।। ९९ ॥ पाणिसंपुटमावध्य, सोऽभ्यधस धनंजपम् । महती खलु वार्तेयं, पुरस्तात् कस्य कथ्यते ! ॥१००॥ परं विश्वविश्वास्य-मूतः किं गोप्यमस्ति ते । किं तु त्वां कर्तुमिच्छामि, न दुःखौघविमागिनम् ॥ १०१॥ वीभत्सुरभ्यधाद्भवः, स्खलितव्यं न हि त्वया। परिज्ञाय कुरून् विश्व-दुःखवायैकदीक्षितान् ॥ १०२ ॥
ससौष्ठवं तदाकर्ण्य, वचःस पुनरब्रवीत् । वैतादये दक्षिणण्या-मस्ति रत्नपुरं पुरम ॥१०३ ॥ वैरिदोर्दण्डकण्डति१ अन्यशिखरम् । २ विक्लवा-व्याकुलाम् ।