________________
धोषि - न्मतयो नातिशेरते । तदप्युदीर्यसे नाथ !, स्वथाऽऽरब्धं न साध्विदम् ॥ ५९ ॥ यदियं मन्मनः प्रीतिः, प्रस्थिता पुरतस्तव । गणनाभिर्दिनानां तु धरिष्ये यदि जीवितम् ।। ६० ।। पन्थानस्तीर्थशैलानां, शिवाः सन्तु तथापि ते । निष्प्रत्युइं वितन्वन्तु सर्वतः कुलदेवताः ।। ६१ ।। अमन् कान्तारमेकाकी, मा भूत् (भूः) कापि प्रमद्वरः । मलीमसानि चेतांसि, साधुष्वपि हि पाप्मनाम् ।। ६२ ।। संचरन् पुरुषान् पश्यत् प्रतिस्थानं नागान्। विद्या: कीर्तीच लक्ष्मीथ, नूतनाः काश्विदर्जये: ।। ६३ ।। तथा किमपि मा कार्षी- श्रमन् देशाननेकशः । यथा नाथ वयं स्याम, वैमनस्य वशंवदाः ॥ ६४ ॥ पावितं सुकृतैर्नाना - तीर्थाभिगमजन्मभिः । स्वाम्मुपागतमालिङ्गय, मयाऽऽत्मा पावयिष्यते ॥ ६५ ॥ मया ते स्खलितस्वैर-संचारस्य पदे पदे । मा भूत् पुण्यक्रियाविघ्न, इत्यागच्छामि नो समम् || ६६ ॥
इति ब्रुवाणां प्रणय-प्रहीभूतान्तराशयाम् । आलिङ्गन्य मुहुरालप्य, वचोभिः स्नेहनिर्भरैः ॥ ६७ ॥ अनुव्रजन्तीं दयितामवस्थाप्य कथंचन । प्रतस्थे पुरतः पार्थः, सतूणधृतकार्मुकः ॥ ६८ ॥ ( युग्मम् ) आ लोचनपथात् पार्थ, पथिकं सा पौ दृशा । प्रेम्णा सोऽप्यचलन्मन्द मन्दं वलितकंधरः ।। ६९ ।। मन्द्रारघट्टनिर्घोष - शिखण्डिकृतताण्डवान् । माद्यन्मधुत्रतत्रात - झङ्कारमुखरोदरान् ||७०|| सान्द्रनैकद्रुमच्छाया-निपीततपनातपान् । पश्यन् परिसरारामान् स जगाम शनैः शनैः ॥७१॥ ( युग्मम् ) तीरप्ररोहसानन्द - माकन्दप्रायपादपम् । कूजत्कुररद्दारीत - कपिञ्जलजलाद्विकम् ॥ ७२ ॥ तारुण्ये तरणेः क्षोणिमतीत्य कियतीमपि । पार्थः क्षीरोददायाद - माससाद महासर: ||७३ || ( युग्मम् ) तत्राङ्गशौचमाधाय, प्रणिधाय जिनेश्वरम् ।
१ मन्द्रः - गम्भीरध्वनिः । २ द्विकः काकः । ३ क्षीराब्धिसदृशम् ।