________________
भीपाण्डव परित्रम् ॥ सर्मः ५॥ ॥ ७० ॥
प्रतिवाभङ्गेऽर्जुनस्य बने | गमनाय प्रार्थनम् ।।
जनन्यामिति वादिन्या, बन्धुज्येष्ठो युधिष्ठिरः । स्फुरदस्तोकशोकोमि-पीतप्रीतिरभाषत ।। ४४ ।। त्वद्वियोगासही वीर,
र पितरौ मावमानय । नातिक्रान्तगुरूणां हि, क्रिया कापि फलेग्रहिः ।।४५॥ समयोपि मुनेरव, त्वया कोऽयमभिद्यत । अत्याहिते हि साधूना-मतिभूमिर्न पिता ॥४६॥ भिन्न एचायवा तस्य, प्रायश्चित्तमपि स्वया । एताः पौरमवीः किं नु, न प्रत्याहरता कृतम् ॥ ४७ ॥ मनसेव न मन्येऽह-मन्तरं वपुषाऽपि ते । आत्मन्यन्त:स्थिते मेदः, समयस्य न चात्मनः ॥ ४८॥ प्रतिच्चान इवैतां च, वाचमाजातशात्रवीम् । अनुगम्य गिरं दीना, निजगाद वृकोदरः ॥४९॥ गन्तुकामोऽपि मां भ्रातचस्थानाय मानय । हृदयं स्फुटतीवेदं भवद्विरहकातरम् ॥ ५० ॥ यमावप्यूचतुर्भ्रातः, कान्ताराय गते त्वयि । नित्यं विविधकेलीभिः, को हि नौ लालयिष्यति ॥५१॥
अथ स्फुटमषष्टम्य, धैर्य धीमानवोचत । स्वप्रतिश्रुतनिर्वाह-बद्धबुद्धिर्धनंजयः ।। ५२ ॥ पृथग्जनोचिता हन्त !, केयं कातरताऽध नः १ । भवन्मनस एवाय-मन्तेवासी पचिर्न तु ।। ५३॥ ममाङ्गीकतनिर्वाह-व्रतचर्यावकीर्णिनः । युष्मानेवायशः कामं, नन्विदं लजयिष्यति ॥ ५४॥ तदलादनुमन्यध्व-मरण्यगमनाय माम् । सत्याः सन्तु मुनेर्वाचो, ममापि पुरुषव्रतम् ।। ५५ ।। इति सस्नेहमापृच्छच, बीभत्सौ गन्तुमिच्छति । तमस्तान् व्यानशे सर्वान् , दिक्कुआनिव भास्वति ।। ५६ ॥ अधानम्य कमान्मन्यु-गद्गदाशीगिरो गुरुन् । प्रीत्याऽऽलिङ्गयानुगच्छन्ती, कनीयांसौ न्यवर्तयत् ॥ ५७ ॥
अमङ्गल्यधिया वाप-विन्दुपातं निरुन्धती । प्रस्थितं पार्थमभ्येत्य, जगाद दुपदात्मजा ॥ ५८॥ पुंसां मतीः क्वचि१ अविभयजनके कार्ये । २ प्रतिश्रुतं-प्रतिहा। ३ अवकीर्णी-भङ्गकारकः । ४ मन्युः-शोकः ।
। ७०।