________________
श्री पाण्डवचरित्रम् ॥ सर्गः ५ ॥
॥ ६९ ॥
137
प्रियसखीमिव । आलपन्त्य इवैक्ष्यन्त, सरसैः सारसारवैः ॥ १३ ॥ मेरालैः कमलोचंसाः, सरस्यः पुनराश्रिताः । सेव्यते हि प्रभुः प्रायो, विशदैरपि संपदि || १४ || सससच्छदामोदा, विरेजुर्वनभूमयः । क्रीडत्कामेभसंभूत-दानाम्भः सौरमा इव ।। १५ ।। संपन्नसर्वसस्यौध-मण्डितां पाण्डुसूनवः । शरदं निर्विशन्ति स्म, शश्वदुद्यानकेलिभिः ॥ १६ ॥
गोचरेऽपैररात्रस्य, निर्गतं बहिरन्यदा । समस्तमभ्यपाहारि, तस्करैः पुरवैनुकम् ॥ १७ ॥ तत्क्षणार्दक्षिणेर्माण- स्तस्करश्रेणिमार्गणैः । भ्रूशक्रस्यैत्य पूचक्र - मन्दिरद्वारि वल्लवाः ॥ १८ ॥ तदीयध्वनिमाकर्ण्य, कर्णयोः क्रकचोपमम् । उज्झांचकार वीभत्सु - निंद्रातन्द्रालुतां क्षणात् ॥ १९ ॥ ततो जीवधनं दस्यु हृतं विज्ञाय तन्मुखात् । शौण्डीरचूडामाणिक्य-मन्तर्जज्वाल फाल्गुनः ॥ २० ॥ अर्जुनेन प्रजाकार्ये, प्राणानपि जिहासता । तदा समयभेदोऽपि, सानन्दमुररीकृतः ॥ २१ ॥ ततो धनुः सतूणीर-मादातुं फाल्गुनोऽविशत् । वासवेश्मनि कृष्णायाः, क्रोडक्रीडयुधिष्ठिरे || २२ || आदाय विजयस्तस्मा-त्रिजतूणीरकार्मुके । तस्करानुपदं वीरः क्रोधावेशादधावत ॥ २३ ॥ स वीरग्रामणीर्बाणै रणे निर्जित्य तस्करान् । प्रीत्याऽभिनन्दितः पौर, पुरस्कृत्याऽऽनिनाय गाः ||२४|| विगाहते स्म गायद्भिस्तद्भुजस्फूर्तिचर्चरीः । गोषैरेत्य वृतः प्रीत्या, नरो नारायणोपैमाम् || २५ || पार्थस्येव यशः साक्षात्, क्षरन्स्यः क्षीरमुज्वलम् । स्वस्ववत्सोत्सुका गावः स्वं स्वं धामोपतस्थिरे ॥ २६ ॥
कश्चिदभ्येत्य बीभत्सो-रादेशादथ पार्थिवम् । कुन्ती - युधिष्ठिरप्रेष्ठ-कुटुम्बोपेतमभ्यधात् || २७ || दिष्ट्या त्वं वर्धसे
१ ईसैः | २ रात्रिचरमसमये । ३ पारधिना दक्षिणपार्श्वे विद्धो मृगो दक्षिणेर्मोच्यते स प्राणधारणे निराशो भवति तत्सदृशा इमे वलवा: गोपाः । ४ अर्जुनः । ५ प्रतिज्ञाभङ्गः । ६ पमः पमा, पमम् इति प्रतिपाठाः ७ प्रष्ठः मुख्यः ।
पञ्चपाच
लजन्म 1
तस्करह
पुरधैनुकं
अर्जुनेन
प्रत्याहृतम्।
॥ ६९ ॥