________________
मृगाः। घोरेपुर पुराणः, शुकराश भयंकरः ॥७९॥ सन्ति यत्र महाकाया-श्चित्रकायाः सहस्रशः । सरिद्गमितमध्याहवासराश्चापि कासराः ॥ ८०॥ ततस्तं लुब्धक श्रेष्ठं, पृष्ठमाधाय तरक्षणात् । तदुपद्रोतुमारेमे, कानन मेदिनीपतिः ॥ ८१॥ चागुरापाशवीतस-विहस्तोभयवाणयः । प्रमः परितः स्वैर-वादिनस्तत्र सादिनः ।। ८२ ।। अमुच्यन्त नवाकल्प-सरमाः सरमासुताः । दधाव विविधारब्ध-कूटः कूटमृगीगणः ॥ ८३ ।। दुःसाधव्याघहकाभि-भीमयाघातनिःस्वनैः । क्षणादलभत
क्षोभ, भयात्तत् काननं तदा ।।८४|| आशशंस शशखाणं, कुरङ्गोऽभूत् कुरङ्गका समीपी नाभवद्द्वीपी, किरति स्म किरिः स्मयम् |॥ ४५ ॥ शरभः शरभङ्गाय, पूर्वकायमुदास्थत । भीतः ससार कासार-नीरं सपदि कासरः ॥८६॥ गोमायुरायुरन्तेऽभू-तरक्षुर्दिक्षु पुप्लुवे । दूरसुध्धुशितान् दधे, केसरी केसगन् पुनः ।।८७॥ वनमालोडयन्नेव, मन्दराद्रिरिवार्णवम् । केनाप्येत्य नृपो | यूना, मा स्म मा स्मेत्यवार्यत 1८८॥ तध्वनेरध्वनि क्षिप्त-चक्षुः क्षितिपतिः पुरः। मण्डलीकृतकोदण्डं, तूणीरद्वयधारिणम् ॥ ८९ ॥ साक्षादिव धनुर्वेद, वनं रक्षितुमागतम् । युवानमेकं पीनाङ्ग-मननोपममैक्षत ॥९०॥ (युग्मम् ) तमभ्यधाच मो भद्र, कान्तारान्तस्वासिषु । मृगेषु मृगयाशीलान् , कथमस्माविषेधसि ॥ ९१ । सोऽप्युवाच महाभाग, वन्यानेतानिरागतः । भैयाान् भव्यनीतिज्ञ, न जन्तून् हन्तुमईसि ॥९२|| मवन्ति हि भवादृक्षाः, सर्वप्राणिप्रियंकराः । प्राणिनां च प्रियाः प्राणा-स्त्रायस्व तदिमानहो ! ।।९३|| ऊचे नृपश्चलेग्वेषा, शिक्षा लक्ष्येषु दोभृताम् । मृगयेति विदुः पूर्वे, तदलं विचिकित्सया ॥ ९४ ॥ तदितोऽयेहि मुग्धोऽसि, विदग्धैर्विप्रतारितः। विलोकय विनोदं मे, सर्वक्षत्रमनोहरम् ॥९५ ।। स युबोचाच |
१ बीतमः-पभिग्रहणाय जालः । २ विहम्नः महितः । ३ लघुव्यानः । ४ भयानभिज्ञानीतिज्ञ ' इति प्रतित्रयपाट