________________
माता, सागरस्तत् तवात्मजः ॥ ३५५ || सुतमालोचयामीति, जिनदत्तोऽगमद् गृहम् । सागरस्य तदाख्यच, मौनमालम्ब्य स स्थितः || ३५६ ।। अनिषिद्धं अनुमत-मिति न्यायेन तत्पिता । मेने सागरदत्ताय, गृहजामातर सुतम् ॥ ३५७॥ आश्वर्यकृत्तयोर्जत्रे, पाणिग्रहमहोत्सवः । नक्तं शिश्रियतुस्तौ च पल्यङ्कं वासवेश्मनि ॥ ३५८ ॥ पूर्वकर्मवशात्तस्याः, स्पर्शमङ्गारसोदरम् | आसाद्य सागरस्तस्थौ क्षणं तत्र कथंचन ।। ३५९|| तस्यां सुखप्रसुतायां स प्रणश्य गृहं ययौ । निद्रात्ययेऽरुदत् कान्त - मपश्यन्ती च सा भृशम् || ३६०|| अधादिष्टा तयोर्दन्त-शौचहेतोः सुभद्रया । प्रातरेक्षिष्ट तां चेटी, रुदन्तीं बल्लभोज्झिताम् || ३६१ ।। सा गत्वाऽऽख्यत् सुभद्रायै, साऽपि स्वप्रेयसे क्षणात् । पितुरेषोऽपि जामातु-रुपालम्भं ददौ स्वयम् ॥३६२॥ सोऽप्याह तनयं वत्स !, न युक्तं विदधे त्वया । गच्छाधुनाऽपि तत् तत्र, माऽन्यथा मद्वचः कृथाः ॥ ३६३|| सागरोऽप्यचिवानयाँ, वरं झम्पां तनोम्यहम् । न पुनस्तात ! गन्तास्मि वेश्म तस्याः कदाचन ।। ३६४ ॥ इदं सागरदत्तोऽपि, तत्कुष्यान्तरितोऽशृणोत् । जगाद च गृहं गत्वा, निराशः सुकुमारिकाम् || ३६५ ।। कथंचित् सर्वथा वत्से !, विरक्तः सागरस्त्वयि । तन्मा विद्यस्व कोऽप्यन्यः, पतिस्तव विधास्यते ॥ ३६६ ॥ कौपीनाम्बरमात्रैक-कर्परं मक्षिकावृतम् । भिक्षुकं कंचिदद्राक्षीत् स गवाक्षस्थितोऽन्यदा || ३६७ || आहूय तेन सोऽम्भोमिः स्नपयित्वा सुगन्धिभिः । विलिप्य चन्दनैर्दिव्यवासांसि परिधाप्य च || ३६८ || ऊबे तुभ्यं मया दत्ता, पुत्रीर्य सुकुमारिका । मदीयां विलसन् लक्ष्मी, सुखमास्स्व सहानया ।। ३६९ ।। (युग्मम् ) इत्युक्तः सोऽविशद्वास- वेश्म सार्क तथा निशि । मेने च तद्वपुःश्लेष-मग्निप्लोषमिवात्मनः ॥ ३७० ॥
५ अभिदाहम ।