________________
श्री पाण्डवचरित्रम् ॥
सर्गः ४ ॥
॥ ६४ ॥
सोsपि, जगाम नगरादहिः ॥ ३३८ ॥ बिन्दौ निपतिते तस्य कथंचित् तत्र पात्रतः । सक्ताः स मुनिरद्राक्षी - त्रियमाणाः पिषीलिकाः || ३३९ || दृष्यों व बद्धसंवेगो, बिन्दुरप्यस्य यद्यसौ । प्राणिनामियतां हन्ता, तत्सर्व किं करिष्यति १ ॥ ३४० ॥ वरमेकस्य मे मृत्युः कोटिशो न तु देहिनाम् । इत्यालोच्य सरोमाश्च-स्तदसौ बुभुजे स्वयम् || ३४१ ॥ सिद्धप्रत्यक्षमालोच्य, समाधिनः । सर्वार्थमा न्युक्तिः सान् विहाय सः || ३४२|| बहिर्धर्मरुचेः कस्मा-द्विलम्व ? इति वेदितुम् । गुरुः श्रीधर्मघोषोऽथ, निदिदेश परान् मुनीन् || ३४३ ॥ तं परासुं बहिर्वीक्ष्य, तद्रजोहरणादिकम् । आदाय गुरुपादानां, तेऽपि सर्वं न्यवेदयन् ॥ ३४४ || विज्ञायातीन्द्रियज्ञानोपयोगेन यथास्थितम् । सवं मुनीनां नागश्री-वृत्तान्तं तेऽप्यचीकथन् || ३४५ || ज्ञात्वा कथंचिल्लोकानां वाक्परम्परया जनाः । सोमदेवादिविप्राणां, तस्या दुथेष्टितं जगुः || ३४६ ॥ काममाक्रुश्य विप्रास्ते, तां गृहान्निरवासयन् । लोकधिक्रियमाणा च साऽपि बभ्राम सर्वतः ॥ ३४७ ॥ कास-श्वास-ज्वरो त्कम्पकुष्टाद्यैः क्रान्तविग्रहा | रोगैः पोडशभिर्लेमे, साचैव नरकव्यथाम् ॥ ३४८ ॥ क्षुत्पिपासार्दिता लोके - र्निन्द्यमाना पदे पदे । दुःखं भ्रमन्ती सा मृत्वा, पष्ठं नरकमासदत् ॥ ३४९ ॥ तस्मादुत्पद्य मीनेषु सप्तमं नरकं ययौ । पुनर्मीनत्वमासाद्य तस्मि नेव जगाम सा || ३५० ॥ द्विद्विरेवं सिषेयेऽसौ नरकान् सकलानपि । पृथ्वीकायादिषूत्पेदे, तदुद्वृत्ता च भूरिशः ।। ३५१ ।। चम्पायामथ सा कर्म - लाघवात् सुकुमारिका । सुता सागरदत्तस्य सुभद्राकुक्षिभूरभूत् || ३५२ ॥ जिनदत्तात्मजस्तत्र, भद्राजञ्चास्ति सागरः । वेश्मस्थां तत्पिताऽन्येद्यु- ददर्श सुकुमारिकाम् ॥ ३५३ ॥ तनयस्य मदीयस्य, योग्वेयमिति चिन्तयन् । सह बन्धुभिरभ्येत्य पितरं तामयाचत ।। ३५४ ॥ सोऽप्यूचेऽतिप्रिया मेऽसौ न भवाम्यनया चिना । ममास्तु गृहजा
द्रौपदीपूर्वभवः ॥
॥ ६४ ॥