________________
स्वयंवरा॥
भव्य-स्मराहरकरम्बितम् । वपुर्लीलावनं भूना, सिश्चन्ती स्वेदवारिभिः॥३१० ।। स्वैरमुज्जृम्भितस्तम्मा, पृथुप्रथितवेपथुः। चरित्रम् ॥ मदौ-सुक्य-त्रपा-हर्ष-साध्वसस्फारचारिमा ॥ ३९१ ।। वरीतुकामा पश्चापि, लोकनिर्वादशङ्किता । दौवारिकीकराब्जाम्या, सर्गः कण्ठपीठे किरीटिनः ।। ३१२ ॥ वरमाला निचिक्षेप, सा तु दिव्यानुभावतः । लोकैः प्रत्येकमेकाऽपि, तेषां कण्ठेवरश्यत
N॥३१३॥ ( पञ्चभिः कुलकम् ) उच्चचार ततस्तारा, व्योम्नि वागशरीरिणी । साधु साधु वृतं राज-कन्यया मा स्म शङ्कच॥६३॥
ताम् ॥ ३१४ ॥ चिन्ता चतुर्णामन्येषा-मनुरूपा स्नुषाऽस्तु मे। इदानीमपयातेय-मिति कुन्ती मुदं दधौ ॥ ३१५॥ किमेषामपि भाग्येन, दत्तभूयिष्ठसौष्ठवः । कर्मेदमादधे जिष्णु-रिति पाण्डुर्विसिध्मिये ॥ ३१६ ॥ परिवेत्ता भविष्यामि, नाहमुद्दाहशालिनि । तपःसुते च भीमे चे-त्यप्रीयत कपिध्वजः ॥ ३१७॥ पञ्चभ्यस्तनयामेकां, नामीम्यो दातुमुत्सहे । ददानो हि गमिष्यामि, साधूनामुपहास्यताम् ॥३१८|| वरमाला च पञ्चाना-मपि कण्टे लुलोठ । सा दिव्यवाद केयमुत्तस्थौ ?, तत् किं नाम भविष्यति ? ॥३१९॥ इति चिन्तातुरो याव-दभूद्रुपदभूपतिः । चारणश्रमणः कश्चि-चावदागादिवोऽध्वना ॥ ३२ ॥ (त्रिभिर्विशेषकम् )
दिशः काश्चनकान्तामि-दिहानं देहकान्तिभिः। परमज्योतिषः प्रास, विवर्तमिव मूर्तताम् ।।३२१॥ तमम्युदस्थुः पाञ्चालविश्वक्सेनादयो नृपाः । स्फुरदम्भोरुहाराम-पर्वमानमिवालिनः ।। ३२२ ॥ (युग्मम् ) तमासयित्वा सर्वेऽपि, रत्न
१ करम्वितं-सहितम् । २ प्राप्तस्तब्धता। ३ चारिमा सुन्दरता। ४ महती । ५ " परिवेत्ताऽनुजोऽनुढे, ज्येष्टे दारपरिमहात्" इत्यमरः । ६ लिम्पन्तम् । ७ पवमानः-वायुः ।
॥६३॥