________________
कुण्डस्य, प्रतिविम्बवतामधः। जवेन भ्राम्यतां तेषा, चक्रकाणामरान्तरे ।। २९५॥ लक्ष्यीकुर्वन् नमद्वक्त्रो, राधाया वाममीक्षणम् । ऊर्वीकृत्य दृशं पूर्वा, वक्षोऽन्तमपरां नयन् ॥ २९६ ॥ कटाक्षैः सह कृष्णायाः, कुन्त्याः प्रस्रवनिझरैः । | पितुरानन्दवाप्पैश्च, चकर्ष धनुरर्जुनः ।। २९७ ।। (त्रिभिर्विशेषकम् ) तथाभृतः स भाति म्म, हन्तुं देवानिवोद्यतः । दीनं बीच तन्मुखाम्भोज-मनीक्षितुमना इव ॥२९८॥ अदभ्रसंभ्रमैः कैश्चि-दासनात् पतयालुभिः । स्थगयद्धिः श्रुती पाणि-पल्लवायां |च कैश्चन ।। २९९ ।। उद्बुद्धसाध्वसैः कैश्चित् , परिभ्रष्टोत्तरीयकैः । अतिभूरिभयोद्धान्त-पमानश्च कैश्चन ॥ ३००॥ भिन्दानोद्रितटीस्तन्वन , शब्दाढेतमयं जगत । फाल्गुनाकृष्टकोदण्ड-लेकारः अयते स्म सः ॥ ३०१॥ (त्रिमिर्विशेषकम् ) मन्ये तस्माद्धनुर्वानात् , त्रस्तैरश्वैर्विवस्वतः । एकचनो स्थश्चक्रे, मेरोरास्फाल्य सानुषु ।। ३०२ ॥ भुजैः सह महीशाना, मार्गणो गुणमत्यजत् । विभेद महक्षु लक्ष्यं च, तदीयहृदयैः समम् ।। ३०३ ॥ क्षणार्ध्व शरः प्राप, शरव्यं सव्यसाचिनः । | लोकाग्रं पुनरासेदु-मुंजविस्फतिकीर्तयः ।। ३०४ || पुष्पवर्ष मरुत्पर्ष-दुपरिष्टात किरीटिनः । दिवोऽकादमुचत् प्राप्त मानन्दमिव मुर्तताम् ।। ३०५ ।। विलेसुर्दिनि गीर्वाण-दुन्दुभिच्चनयोधिकम | धनंजयधनुर्वान-प्रतिध्वानमनाभयः ॥ ३०६ ॥ मुदा लोकस्य सर्वस्या-प्युल्ललास जयध्वनिः । मूत्रयन्मातृकां देवीं, वर्णद्वयमयीमिव ।। ३०७ ।। आनन्दैकमयं संप-न्मय स्फीतयशोमयम् । तदा कुन्न्याश्च पाण्डोश्च, बभूव निखिलं जगत् ।। ३०८ ॥
साकालमथ पश्यन्ती, दृशः कोणेन कोटिशः । सुतान् पश्चापि पाञ्चाली, पाण्डोरुदण्डविक्रमान् ॥३०९॥ रोमहर्षमिषा१'रई 'प्रतित्रयः। बाणः । ३ लक्ष्यम् ।