________________
श्रीषाण्डव चरित्रम् ।।
सर्चः ४ ॥
॥ ६२ ॥
123
कस्यापि विस्मयस्मेराः कस्याप्युत्प्रांसपांशुराः । क्रोधताम्राथ कस्यापि दृशः पेतुः किरीटिनि ॥ २८१ ॥ क्षणात् प्रदक्षिणीकृत्य, प्रणिपत्य च कार्मुक ज्येष्ठबन्धोस्यादेशा-दुचिक्षेप कपिध्वजः ।। २८२ ।। साइंकारस्ततस्तार- बुजगार कोवरः । एतदत्यद्भुतं कर्म कुर्वाणे कपिकेतने ॥ २८३ ॥ दोर्मृतो यस्य कस्यापि शिरःशूलमुदेष्यति । गदेयमगदंकारः, तस्य जागर्ति मामकी || २८४ ॥ ( युग्मम् ) पार्थोऽप्यनमयचापं, समं मानैर्महीभृताम् । निनाय शिञ्जिनीकोटिमात्मना सह धन्विषु ॥ २८५ ॥ तदानीमासदन् कान्ति, सुहृदां वदनेन्दवः ॥ तत्प्रणुन्न इव ध्वान्तो, मुखमाशिश्रियद्विपाम् ॥ २८६ ॥ अमुञ्चदङ्करान् कुन्ती, मनस्यानन्दकन्देलान् । गान्धारी हृदि तु स्वैर-मप्रीतिविषवल्लेरीम् ॥ २८७ ॥ आसन् युधिष्ठिरादीनां प्रमोदविशदा दृशः । तदा दुर्योधनादीनां पुनर्दोषकपायिताः || २८८ || अभूत् कर्मेदमेतावत्, पुरो भवतु देवता । इत्याशंसारसाजे, द्रौपदी विवंशां दशाम् || २८९ ॥ पाण्डुं च धृतराष्ट्रं च भीष्मं च गुरुरमवीत् । अर्जुनस्य जोर्जित्य - मितः पश्यत पश्यत ॥ २९० ॥ शनकैराकृषेर्वत्स !, चापमेतश्चिरंतनम् । सहिष्यते न ते सार -मिति मासति || २९१ ॥ आसनाइभसोचाल - वाचालवदनोदरे । पश्यति द्रुतमुत्थाय, पृथिवीपालमण्डले ॥ २९२ ॥ कुतूहलान्मिलन्तीनां, सिद्धगन्धर्वयोषिताम् । व्योग्नि वक्त्रैर्विमानान्त-लक्षितैः शतन्द्रिते || २९३ ।। सुपुषि रोमाञ्चः, प्रस्वेदो द्वेषिवर्ष्मणि । काण्डः कोदण्डदण्डे च, संदधे सव्यसाचिना ।। २९४ ॥ ( चतुर्भिः कलापकम् ) अथान्तस्तैल
१ उपहासेन पापिष्ठाः । २. प्रत्यवायम् । ३ ' दल: ' प्रतित्रयपाठः । ४ 'बल्लरी ' प्रतित्रयपाठः । ५ विशदां शं 'दिवशां शाम् ' प्र० । ६ शतचन्द्रवति कृते सति । ७ शरः ।
द्रौपदीस्वयंवर में
| ॥ ६२ ॥