________________
122
चेतसि । सतामात्मज्ञता नाम, महर्द्धिमहिमास्पदम् || २६६ || ( युग्मम् )
देवि ! संज्ञया हरेः । विस्मयस्मेरराजन्य-नेत्रनीराजिताननाः || २६७ ॥ कटाकोटिभिः प्रत्युधाताः कस्याश्चिदादरात् । स्मरेपव इवोचण्डाः पाण्डोः पश्चापि सूनवः || २६८ || ( युग्मम् ) देवि । पञ्चभिरप्येतैः कुलं कुरुनरेशितुः । पाण्डवैर्महयां चक्रे, शरीरं करणैरिव ।। २६९ ।। रसौ वीरच शान्तश्च व्योम्नीत्रार्कनिशाकरौ । तितो यत्र किं नाम, तस्याजातरिपोः स्तुवे ? ॥ २७० ॥ भुजैर्युद्धेष्वरिस्तोम-यमयोर्यमेयोरपि । स्त्रः कुरङ्गदशां मर्द - सुभिक्षं निर्ममे - तमाम् || २७१ ।। रिपुमं युधि नामापि भीम-फाल्गुनयोः पुनः । हेरेवित्रासयत्येव, प्रतिशब्दोऽपि दन्तिनः ॥ २७२ ॥ व्योम्नि त्रस्तसुरखैणे, प्रहितैः कलितैः पुनः । युधि क्रीडति भीमोऽयं, कुञ्जरैः कन्दुकैरिव ॥ २७३ ॥ अर्जुनस्य पुनर्वाणाः, शत्रुप्राणापहारिणः । अमुक्ता अपि चापेन, विविशुः कस्य नो हृदि ? ॥ २७४ ॥ शरैर्यस्यारिनारीणां लूनाः पत्रलतास्तथा । यथा सह व्यलीयन्त कटाक्षसुमनोलिहः || २७५ ॥ इदमस्थास्नु कल्पान्त स्थायिन्येषां तु भूरिति । मन्ये यन्मार्गणा लक्ष्यमादायाणि श्रयन्ति ताम् || २७६ ॥ यस्य बाणा रणे वक्षो, मश्नन्ति प्रतिपन्थिनाम् । तच्छुद्धान्तवधूनां तु संसन्ते हारवल्लयः ॥ २७७ ॥ केयमात्तविमुक्तीना मपि नः कर्मनिभता ? । इत्यादित्यमित्र प्रष्टुं द्यां ययुर्यच्छरा रणे ॥ २७८ ॥ धनुर्वेदोपनिपदं, पश्यन् यत्रात्मनोऽधिकाम् । गुरुदणोऽपि नियतं यं गुरुं कर्तुमिच्छति ॥ २७९ ॥ इत्यस्यां वेत्रधारिण्यां, धात्रीशदुद्दितुः पुरः । निगदन्त्यां ख़ुदा प्राप, चामसामीप्यमर्जुनः ।। २८० ॥
१ इन्द्रियैः । २ युगलयोः सहदेवनकुलयोः । २ देवीनाम् । ४ सिंहस्य । ५ हस्ते गृहीतैः | ६ लभ्यम् ।