________________
श्रीपाण्डव चरित्रम् ॥
द्रौपदीस्वयंवरः।।
ham स्तम्भस्मस ई शोक समतामुभाकर्णि, सर्वेऽप्या
॥ ५९॥
__इत्याविर्भूतभावेपु, तेषु सर्वेषु राजसु । चिक्षेपक्षोणिभृत्कन्या, स्वभावसरलां दृशम् ॥१९७ापाण्डोः पुत्रांस्तु पश्चापि,विभाव्य मधुराकृतीन् ।धृति वबन्ध तचक्षुः, पणमुद्रीक्ष्य चावृतिम् ॥१९८॥ विमानादय रम्मेव, देवभूमीभृनस्तले । हेममूर्तरधो राधास्तम्भस्येयमवातस्त्॥१९९॥ तस्मिनलमधस्तिय-संक्रान्तप्रतिशतना । पाञ्चाली काममेकापि, बभार बहुरूपताम् ॥२०॥
ऊकुल गुर्ज होक-तुटल प्रविषिष्य च । धृष्टद्युम्नस्ततो वाच-मुवाच दुपदात्मजः ॥२०१॥ दोर्दण्डचण्डिमाक्रान्त-जगतो जगतीभृतः। गिरमेतामुभाकर्णि, सर्वेऽप्याकर्णयन्तु मे ॥ २०२ ॥ साक्षीकृत्य वियत्यर्क-सिद्ध-गन्धर्व-खेचरान् । क्षितौ च ललना-बाल-गोपालप्रमुखं जनम् ।। २०३॥ इदमस्मत्कुलोतंस, देवताशतसेवितम् । चापमारोप्य यः कोऽपि, राधावेधं विधास्यति ॥ २०४ ।। भुवनाद्भुतसौभाग्य-भागिनी भगिनी मम । शौण्डीर्यवेतनं तस्मै, कृष्णेयं कल्पयिष्यते ॥ २०५ ॥ (त्रिभिर्विशेषकम् )
अथाम्युत्तिष्ठतो भूपान् , कार्मुकारोपकर्मणि । प्रगल्भवाक्प्रतीहारी, याज्ञसेन्यै व्यजिज्ञपत् ॥२०६॥ भूपतिर्दमदन्तो. ऽयं, रिपुदन्तिमदान्तकृत् । चापारोपार्थमुत्तस्थौ, देवि ! त्वामभिलाषुकः ॥ २०७॥ थियो विहितविश्रान्ते-र्यस्य दोर्दण्डमण्डपे । भाति वैडूर्यपर्यङ्क, इव ज्याकिणपद्धतिः ।। २०८ ।। संमुखीनक्षुतेनाय-मागच्छन् विनिवारितः। आसने पुनरप्रास-तेजोहानिरूपाविशत् ॥ २०९ ॥
उत्तिष्ठत्येष वामाक्षि:, धरो नाम धराधवः । नवालवाल (लो) यत्कीर्ति-धीरुधो मथुरापुरी ॥ २१ ॥ यच्छुद्धान्त१. मेरुपर्वतस्य । प्रतियातना-प्रतिमा । २ . वेतने' इति वा पाठः । ३ द्रौपचै ।