________________
। प्रलोभनाय तञ्चेतो-मृगस्य स्वैरचारिणः । रोमहर्षमिषादेते, दधुर्दांडरोत्करान् ॥ १८१ ॥ जगन्नयनपीयूष-नवकादम्बिनी| मिमाम् । पश्यन्तश्चिन्तयामासु-रन्तः सर्वेऽपि भूभुजः ॥१८२॥ भुवनस्य य एवास्य, निर्माताऽस्याः स एव न । तदीयशिल्यसीमा हि, स्थिता गौरी-न्दिरादिषु ॥ १८३ ।। यद्वा तस्यापि यः कश्चि-दाचार्यः शिल्यकमणि । त्रिलोकीमण्डनं नूनमियं तेनैव निर्ममे ॥ १८॥ पुरोन्दू कमरया, नित्यर. कामयी महीम् । जडप्रकृतिरेवाय-मुद्गन्छन्मृगलाञ्छनः ॥ १८५ ॥ चक्षुर्निमअदेतस्था, लावण्यक्षीरसागरे। उरोज्न्तरीपमासाध, निर्वृतिं लभते यदि ।। १८६ ॥ इत्यादीन् कोटिशस्तकास्तन्वन्तः स्मेरितस्मराम् । विलोकयन्तः पाश्चाली-मचेष्टन्तेति भूभृतः॥ १८७॥
तस्याः किमिह वास्तव्या, लक्ष्मीरम्येति तुल्यताम् । इतीवालोकांचक्रे, कश्चिल्लीलासरोरुहम् ॥ १८८ ।। अन्यस्य करमारूढा-मप्याच्छेत्तुमलतमाम् । इमामहमितीवांम, मुहुः कश्चिदवैक्षत ॥१८९॥ निषतन्ति मयि स्वैर, कुतोऽमी स्मरमार्गणाः? । इतीव पार्श्वतः कश्चित् , पश्यति स्म मुहर्मुः ॥१९०।। कश्चिदैक्षिष्ट कस्तूरी-तिलकं रलकणे । भालाक्षरलिपीस्तस्या, लाभायेव निमालयन् ॥ १९१ ॥ राधावेधे तवैवास्मिन् , मुखमीक्षामहे वयम् । इतीच भुजमस्पृथत् , कोऽपि केयूरकैसवात् ॥१९२॥ कश्चित् कुपितपुष्पेषु-भरपातमयादिव । प्रावास्वाससा चक्रे, सर्वाङ्गमवगुण्ठनम् ॥ १९३ ॥ ऋश्विनागरवण्डानि, खण्डयन् | दशनारैः। प्रकुष्यत्तः स्मरस्याने, क्षिपतीच मुखेजुलीः॥१९४॥ बहिर्विभाव्यमानाऽपि, योगिनीवेयमीक्ष्यते । कथमन्तरितीवान्यो, हदयं मुहुरैवत ।।१९५॥ परिभ्रष्टमिव कापि, निजमालोकयन्मनः । लिलेख कश्चिदानम्रः, पादाकृष्ठेन पीठिकाम् ॥१९६॥
१ मुखेन्दो प्रतिद्वय । २ उर एव द्वीपम । ३. स्मारित' प्रतिद्वय । ४ पृथ्वीम् ।