________________
स्वयंवर।
श्रीपाण्डवसखिम सर्गः ॥ ॥५७॥
13 सकाश्मीराङ्गनागेव, पत्यौ भास्वत्युपेष्यति ॥ १३६ ।। राजाऽस्मि निर्वसुः पात-लजिध्ये राजमण्डले । इत्यालोच्येव पीपूषयुनिर्देशान्तरं ययौ ।। १३७ । मुक्ताकणभ्रमादुच्चैः, पाञ्चालीहारहेतवे । उच्चितानीच केनापि, नक्षत्राणि क्षणाद्ययुः॥ १३८॥ कलङ्कयपि ममोच्छेद-कारीन्दुः किमु निर्मल: कृष्णास्वेन्दुविधातेति, भियेर विभिदे तमः।। १३९ ।। संमुखं सर्वभूपालमनोमिरभिभावितैः । रचिः करेवियाकृष्य, पूर्वाद्रिमधिरोपितः ॥ १४० ॥राजन्यमुखराजीव-सरोराजीवकानने । तुल्यमुल्लासयन् भानु-नभोङ्गणमगाहत ।। १४१ ॥ ___अथ काम्यतमाकल्प-कल्पनाल्येतरश्रियः । मचानारोदुमौत्सुक्या-द्वावन्ति स्म धराभुजः ।। १४२ ।। मन्जुलैमङ्गलातोचै-ईन्दिकोलाहलैरपि। विहाय विकसच्चक्षुः, शनैनिंद्रा मुखासिकाम् ॥१४३॥ विधाय विधिवत्सर्व-प्रातःकृत्यानि कृत्यवित् । प्रतिपाल्य मिलसैन्य-सामन्तामात्यमण्डलम् ।। १४४ ।। औचित्यरचिताकल्पान्, कल्पवृक्षारानिव । कुमारान स्वान् पुरस्कृत्य, नित्यदोर्दण्डमण्डनान् ।। १४५ ॥ ययौ स्वयंवरं पाण्ड-खण्डमहिमोदयः । रम्यं च मञ्चमारोहन, काम्पील्यपतिदर्शितम् ॥ १४६ ॥ (चतुर्भिः कलापकम् ) सिंहासने स नीलाश्म-मयुखपरिवेपिणि । स्वरक्षार्थमयःशाल-शालिनीव न्यविक्षत ॥ १४७ ।। बद्धकायानिव न्याया-नुन्साहानिय देहिनः । वपुष्मन्तीव तेजांसि, मूर्तान् कीनिचयानिव ॥ १४८ ॥ कुमारान् मारक्षेत्रांस्तान् , पश्यतां काश्यपीभुजाम् । राज्येऽप्यभवदाच्छेद-शङ्कापकाविलं मनः ॥१४९।। (युग्मम् ) साक्षादिव धनुर्वेद, वीर रसमिवाङ्गिनम् । ज्योतिर्विवर्नमुत्तीर्ण-मादिपुंस इबावनौ ।। १५० ॥ तेपामपि विशेपेण, विलोक्य कपिकेतनम्।
१ इष्टतमभूषणानां रचनयाऽनल्पशोभावन्तः । २ ज्योतिषां समूहः । ३ अर्जुनम् ।
W
॥५७॥