________________
112
श्यामास्यतां दधुः ॥ १२१ ॥ कला काऽप्यस्ति भूपानां द्रौपदीप्रामिकारणम् । इति ज्ञातुमना मन्ये, कलानां निविरुद्ययौ ।। १२२ ।। पाञ्चाली नयनौपम्य - महमेव लभे परम् । इत्यवश्यमिदं हर्षा - दुन्मिमील महोत्पलम् ।। १२३ ।। पाञ्चालीस्पृहयातूनां भ्रूभुजामथ मन्मथः । मुमोच मार्गणश्रेणि-मीयेयेव समं हृदि ॥ १२४ ॥ अनल्पसंकल्प-यूनुसंतापशान्तये । रचयांचक्रिरे केचि - जाह्नवीमसरोरुहाम् ।। १२५ ।। द्रौपदीवदनाम्भोज-प्रतिस्पर्धितथा स्फुटम् । अभूत् केषांचिदानन्द- भिन्दुरप्यास्पदं रुपाम् ।। १२६ ।। प्रेङ्खोलयद्धिरत्युष्ण- निःश्वासपवनोर्मिभिः । शातितः शीतिमा कैचित् कदलीदलमारुतैः ।। १२७ ।। भ्रातर्जानीहि जातेयमस्मदुत्सङ्गसङ्गिनी । सुहृदं केचिदित्यूचुः कार्मुकाम्यासकर्मठाः ॥ १२८ ॥ अङ्गारयति हारोऽयं, हिमांशुस्तपनीयति । तमस्तोमीयति ज्योत्स्ना, स्वगुप्तीयति पङ्कजम् ।। १२९ ।। नाडिका यामकल्पाऽद्य यामोऽभूद्यामिनीसभः । यामिनी वर्षदेश्या च धिकेयं विपरीतता ॥ १३० ॥ द्वीपान्तरेऽपि कस्याथित् स्वयंवरमहोत्सवम् । रविरालोकयत्यद्य, नाभ्युदेति किमन्यथा १ || १३२ ।। इति द्रुपदकन्याङ्ग - संगमोत्सवमिच्छताम् । बभूव सर्वभूवानां, कोटियामेव यामिनी ।। १३२ ॥ ( चतुर्भिः कलापकम् । ) अन्तर्विचिन्त्य पाण्डुस्तु, दोर्दण्डानात्मजन्मनाम् । अपास्तचिन्तासंतापः, सुखी सुष्वाप निर्भरम् ॥ १३३ ॥ कुरुवंशाङ्कराणां तद्विलोक्य ललितं वपुः । पणं पञ्चालभूपालः स्वं निनिन्द मुहुर्मुहुः ॥ १३४ ॥ इत्थं पृथ्वीभुजां नाना - विकल्पाचान्तचेतसाम् । कृच्छ्रलब्धाल्पनिद्राणां विरराम विभावरी || १३५|| दिगुद्भूतारुणोद्भेदा, बभासे शार्तमन्यवी उच्छद्भिः । ३ नाशितः ध्वस्त इत्यर्थः । ४ चन्द्रः । ५ स्वगुमा लताविशेषः सामणी इत्यर्थः ।
१ सङ्कल्पसूनुः - कामः । इति भाषायाम् । ६ ऐन्द्री - पूर्वा