________________
104
अथ चतुर्थः सर्गः ।
अभान्मामदचणी, श्रीमान् जीवांकुट्टिमः । खण्डितारातिदोष्काण्डः पाण्डुः संसद्मासदत् ॥ १ ॥ हिरण्मयमयं मैजे, शारदाम्भोधरद्युतिः । भद्रासनं शशिकान्त सुमेरुशिखरोपमम् ||२|| दधार रत्नकेयूरे, स प्रभाणिताम्बरे । चमयामित्र बाहुभ्यां प्रतापं सूतां गतम् || ३ || अरातिकीर्तिसर्वस्व - मावयैव विनिर्मितम् । स बभारोज्ज्वलं हार-मुरःस्थलविलनिम् ॥ ४ ॥ शिरस्युवाह पीतानां विपक्षमहसामिव । अमान्तमन्तः संदोहं, स रत्नमुकुटच्छलात् ॥ ५ ॥ ऋपोलदर्पणे द्रष्टु-मात्मीयकमनीयताम् । विकर्तनाविवायातौ स दधौ स्वर्णकुण्डले ॥ ६ ॥ जयप्रशस्तिमेतस्य चामरग्राहिणीगणाः । कङ्कणरणत्कार- कैतवेन वितेनिरे ॥ ७ ॥ हारयष्टिं महीपृष्ठे, तस्यैव विशदं यशः । पुञ्जयन्तः क्षितीशास्तं प्रणम्योपात्रिशन् पुरः ॥ ८ ॥ मणिकोटीरसंक्रान्त- मूर्तिर्तिकवान्धवः । उद्यमान इव भेजे, शिरोभिः सोऽवनीश्वरैः ॥ ९ ॥ स्त्यानी भूर्यगतैर्मूर्ति-मद्भिः कामरसैरिव । निर्मिताः परितो वार - नार्यस्तं पर्यवृण्वत ॥ १० ॥ गाङ्गेय- धृतराष्ट्रादि-गुरुवर्गेऽपि गौरवात् । अलंचक्रे तदास्थान - मानन्दभरमेदुरः ॥ ११ ॥ यथास्थानमथासीने, सामन्ता- मात्यमण्डले । स्तुवत्सु तद्यशो विश्व-श्रोत्रानन्दिषु वन्दिषु ॥ १२ ॥ पुष्पावचूलरोलम्ब-कदम्बध्वनिडम्बरैः । मुहुर्निद्धूयमानासु, गाथकी कलगीतिषु
१ सूर्यो । २ कोटीर:-मुकुटः । ३ रोलम्बा-भ्रमराः ।