________________
102
पुलमा मजूमा माल्य, वनके बालमक्षिपम् ।। ४७३॥ कर्णस्याधः करं कृत्वा, सुप्तः प्राप्तोऽयमित्यसौ । प्रापितः कर्ण इत्याख्या, तनयः सुदिने मया ॥ ४७४ ॥ स्वप्ने रविवितीर्णत्वा-दपरं रविभूरिति । अस्योद्यद्भागधेयस्य, नामधेयम-1 जायत ॥ ४७५ ॥ भवन्ति स्म गुणा बाल्या-दस्मिस्मत्कुलातिगाः । पके पङ्केहो वृद्धि, सौरभ तु स्वतोभवम् ॥ ४७६ ॥ असौ राजकुले कापि, लम्धजन्मा न संशयः । इति कुन्दोज्वलैरस्य, गुणैरनुमितं मया ॥ ४७७ ॥ असौ मदंशजत्वेन, यदविक्षिप्यते मुहुः । काकोलकुलजत्वेऽपि, कुस्सनं कोकिलस्य तत् ॥ ४७८ ।।
इमामाकर्ण्य कर्णस्य, कथामतिरथेर्मुखात् । दधुः सभासदः सर्वे, विस्मयस्तिमितं मनः ॥ ४७९ ।। कुन्ती तु चिन्तयामास, दिष्ट्या जीवति मे सुतः। नेत्रयोश्चिररात्राय, ममाभृत् पारणाविधिः ॥ ४८० ।। सैवेयं यन्मणिस्तोम-मण्डिता | कुण्डलद्वयी । अहमेकैव धन्याऽस्मि, यस्याः कर्णा-र्जुनौ सुतौ ॥४८॥ कोऽन्यः स्पर्धेत पार्थेन ?, यो हि न स्याद सहोदरः । अमृतेनाताभीशु-रेव स्पर्धितुमर्हति ।। ४८२ ॥ कणों वः सोदरो बन्धु-रिति संबन्धमादितः । समये धर्मजादीनां, ज्ञापयिष्यामि जातुचित् ।। ४८३ ।। एवं विकल्पकल्लोलैः, कुन्त्यामाकान्तचेतसि | सभायां भुजमुत्क्षिप्य, कुधा दुर्योधनोऽ| भ्यधात् ।। ४८४ ।। अभिषिक्तोऽयमङ्गेषु, पारशस्तादृशो मया । नाभीष्टौ यस्य कस्यापि, स नामयतु कार्मुकम् ।। ४८५ ।।
तामाकर्ण्य गिरं पाण्ड-मनुषु ज्वलितास्मसु । भयोद्धान्तस्य लोकस्य, जज्ञे कोलाहलो महान् ॥४८६॥ पाण्द्रोणमभाषिष्ट, । 'पान्तः ' प्रतिद्वय० । ६ काकोल:-द्रोणकाका-काकजातिविशेषः इत्यर्थः । ३ चिरकालेन । चन्द्रः । ५
मीट' प्रतिद्वय ।