________________
श्री पाण्डवचरित्रम् ॥ सर्गः ३ ॥
॥ ५१ ॥
तनूजस्याभ्यषिञ्चत || ४५७ ॥ आलिङ्गति स्म सर्वानं सुतमुत्थाप्य सारथिः । उन्मीलन्पुलको मूर्ति, भूयो भूयभुचुम्ब च ||४५८ || विज्ञाय विज्ञदिलक-स्तमित्थं सारथेः सुतम् । कर्णमभ्यर्णमागत्य वदति स्म वृकोदरः || ४५९ || सूतात्मज ! न पार्थेन, कथंचिद्येोद्धुमर्हसि । गृहातां प्राजनं चाप-मपहाय कुलोचितम् ॥ ४६० ॥ अङ्ग ! त्वमङ्गसाम्राज्य - योग्योऽसि न कथंचन । मृगारातिपदे इन्त, गोमायुः किमु जायते ॥ ४६१ ॥ इति व्याहरते वैरं भीमे भीमजोर्जिने । आगत्य रमसाद्भाद - मध्याद्दुर्योधनोऽभ्यधात् ||४६२|| वीराचारानभिज्ञोऽसि, भीम ! यत् कुलमीक्षसे । चुलुकाचान्तमप्ताब्धेः कुलं कुंम्भोद्भवस्य किम् ? ॥४६३ ॥ तच्चान्तरं किमप्येतत् कर्ण इत्युदितं भुवि । दिव्याङ्गलक्षणं मूंती, न सूते सुतमीदृशम् ||४६४||
अथातिरथराह स्म, साधु साधु सुयोधन । असौ मे नाङ्गजः सूनु-यथा प्राप्तस्तथा शृणु ॥ ४६५|| त्रिस्रोतः स्रोतसि पुरा, प्रभाते गतवानहम् । अपश्यं रत्नमञ्जूषां पुण्यलक्ष्मी निजामिव ॥ ४६६ ॥ गृहे नीत्वा पुरः पत्न्या - स्तामुद्वाय्य तदन्तरे । सकुण्डलं स्फुरत्कान्ति, वचनागोचरश्रियम् ॥ ४६७ ॥ राजकुञ्जरदपष्म-ध्वंससंभाविताकृतिम् । एकमालोकयं बालं, सिंहार्भकमिवोद्भटम् ॥ ४६८ || ( युग्मम् ) तमालोक्य कृतलोकं, पत्नी राधामथाभ्यधाम् । अनपत्या प्रिये ! संप्रत्यनेन भव पुत्रिणी ।। ४६९ ।। इत्युक्ता साऽपि मामाह, प्राणेश घुèणारुणे । जाते प्राच्या दिशो वक्त्रे, स्वमोऽथ दशे मया ॥ ४७० ॥ जानामि भानुमानेत्य, सप्रसादं जगाद माम् । वत्से ! संपत्स्यते तेऽद्य शौण्डीरतिलकः सुतः || ४७१ ॥ तं ear दी हर्ष - गरमागरम् । तदैव च त्वयाऽनेन, दिया पुत्रेण वर्धिता ॥ ४७२ ॥ इत्याख्याते शुभे स्वझे, प्रियायाः
१ अश्वनदनयष्टिः । २ अगस्त्यमुनेः । ३ सारथिभार्यां । ४ कृतप्रकाशम् । ५ कुक्कुमारुणे ।
कुमाराणा कला
परीक्षा ।
कर्णस्य
वृत्तान्तः ॥
॥ ५१ ॥