________________
100
मूर्धान-मरविन्दं किमन्वयम् ॥ ४४२ ।। रणः शौण्डीरिमापेक्षा, कुलं नकाप्यपेक्षते । शौण्डीरस्तबलात् कर्णः, फाल्गुनं योधयिष्यति ।। ४४३ ॥ किं नाम सोऽपि शौण्डीरः १, क्षमते यः परानपि । न नाम सहते सिंहो, गर्जामिः स्फूर्जतो धनान् ॥ ४४४ ॥ अथ जल्पथ नाराना, विधत्ते युद्धमर्जुनः । राज्ये कर्णस्तदङ्गाना-मभिषिक्तो मयाऽधुना ॥ ४४५ ।। इत्युदीर्य कृपाचार्य-प्रभृतीन् घृतराष्ट्रसूः । कर्णराज्याभिषेकाय, तत्कालमुपचक्रमे ॥ ४४६ ॥
पुरोहितमथाहूय, कर्ण स्वणांसनास्थतम् । स्वमुक्त सोङ्गसाम्राज्ये-उभ्यषिञ्चत् तीर्थवारिभिः॥४४७॥ निष्कलङ्कमृगाहाभ, | तस्य च्छत्रमधार्यत । अर्जितं निजदोर्दण्डै-यशः स्वमिव पिण्डितम् ।। ४४८ ॥ प्रकीर्णकानि कर्णस्य, धूयन्ते स्म वधूजनैः ।। अभिषेक्तुं तमायाता, गगोर्मय इवाम्बरात् ।। ४४९ ॥ चिरं जयागराजेति, शब्दोद्वारपुरःसरम् । तस्य भोगावली पेठु-- न्दिनो विश्वनन्दिनः ॥ ४५० ॥ कर्णः प्रत्युपकाराय, ययाचेऽथ सुयोधनम् । स्थेमानमर्थांचक्रे, सोऽपि सौहार्दसंपदः । ॥ ४५१ ॥ सौहार्द हि कियन्मात्र, प्राणा अपि तवैव मे । इत्युक्त्रवन्तं राधेयं, मुदाशिष्यत् सुयोधनः।। ४५२ ॥ ततः प्राप्ताङ्गसाम्राज्यः, पुनरादाय कार्मुकम् । रणारम्भाय राधेयो, दूरादाहास्त फाल्गुनम् ।। ४५३ ॥
साम्राज्यमनादेशाना-मुपश्रुत्यात्मजन्मनः । सरदानन्दसंदोह-विसंस्थुलपदक्रमः ॥४५४॥म्रस्तोतरीयसिचयः, प्रफुल्ल | नयनोत्पलः । कर्णस्य जनकोऽम्यागात् , तत्रातिरथिसारथिः ॥४५५॥ युग्मम् ।। कर्णः पितरमालोक्य, दरादुत्सृज्य कार्मुकम् । पपात पादयोस्तस्य, "दैवतं हि परं पिता" ॥४५६॥ बाराज्याभिषेका-मानन्दाश्रुकणोदकैः । पुनरुक्तं शिरः सोऽपि,
१ पामराणि । २ स्तुतिम् । ३ सुयोधनः ।