________________
परमात्मेव, महाभूतैः शरीरिभिः ॥ ४१२ ॥ अश्वस्थामान्विताः स्थाम-बन्धुरा बान्धवाः शतम् । तारका इच शीतांशु, i परिवत्रुः सुयोधनम् ॥ ४१३ ।। अमन्दमन्दरवन्ध-शुम्पदम्मोधिभैरवम् । कातरीकृतशौण्डीर, सिंहनादं समावहन् ।।४१४॥ भुजास्फोटानुसारेण, प्रक्षिप्तनयनाम्बुजैः। विस्मयस्तिमितैस्वास-लोलैचालोकितो जनैः ।। ४१५॥ मीमाकृतिरतिप्रांशुः, सासितूणीर कार्मुकः । कानन कवचं विश्रत , सुमेरिय जङ्गमः॥४१६॥ बीभत्सुं प्रति बीमत्से, क्षिपन गुजारुयो दृशौ । रजमध्यमथाच्यास्त, कर्णः शौर्यमहार्णवः ॥४१७॥ (चतुर्भिः कलापकम्) ततः कर्णः कृपाचार्य, द्रोणं च द्रुहिणोपमम् । ननाम नामिताराति-नीतिप्रह्वान्तराशयः ॥४१८|| ततः सगर्व सोऽवोचत्, पार्थ! माऽनेन कर्मणा । मंस्थाः कर्मठमात्मानं, मामालोकय संप्रति ॥४१९।। अथ पार्थों यथा यद्यत् , कर्म निर्मितवान् पुरा । कर्णः सातिशयं तत्तत् , प्रथयामासिांस्तथा ।।४२०॥
ततः सहर्षमुत्थाय, धृतराष्ट्रात्मजाग्रणीः । कर्ण निबिडमालिङ्गथ, प्रणयादित्यवोचत ।। ४२१॥ कर्ण ! त्वमेकवीरोऽसि, त्वं त्रिलोकीविभूषणम् । त्वं धनुर्वेदविद्यायाः, पर सीमानमीयिवान् ॥४२२॥ स्वमेव वैरिदोर्दप-संपदां पश्यतोहरः। त्वमेव कीर्तिनिर्वास-डिण्डिमः सर्वधन्विनाम् ॥ ४२३ ॥ इदं राज्यमिमे प्राणा, इमाः कुरुकुलश्रियः। सर्व त्वदीयमेवैत-मुहि येन प्रयोजनम् ॥ ४२४ ॥ कणोऽप्युवाच मेऽस्त्येव, समस्तं सुहृदि त्वयि । प्रार्थये केवलं भृयात्, सौहार्द ते मयि स्थिरम् ॥ ४२५ ॥ किं तु पार्थस्य दोर्दण्ड-कण्डूतिज्वरितात्मनः । इच्छति द्वन्द्वयुद्धेन, भुजो भिषजितुं मम ।। ४२६॥ गिरमाकर्ण्य कर्णस्य, तामधिक्षेपपांशुलाम् । हुतो बहिरिव क्रोधा-ज्वलितः फाल्गुनोऽभ्यधात् ॥ ४२७ ॥ कर्ण निर्नाम : निर्मजन् ,
१ सुधः-मन्थानः | २ प्रमोपमम् । ३ चौरः । ५ अधिक्षेपेण-तिरस्कारेण पांशुला-सपापाम् ।