SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ श्रीषाण्डवचरित्रम् ॥ सर्गः ३ ॥ ॥ ४९ ॥ तस्मिन् कथंचन । अनकौशलमात्मीयं दर्शयामास फाल्गुनः || ३९७ ।। लक्ष्ये चले स्थिरे स्थूले, लघीयसि च लाघवम् । के नाम विस्मयं नापुः, पश्यन्तः सव्यसाचिनः १ ॥ ३९८ ॥ द्वानि दृढमुष्टित्वा दुर्भेद्यान्यपि भिन्दिना । जिष्णुना वैरिवारस्य, हटं येतोऽप्यभियत ॥ ३९९ ॥ तस्मिन् बहूनि चित्राणि, विचित्राणि वितन्वति । चित्रीयन्ते स्म के नाम, न माद्यदोर्मदा अपि ? || ४०० ।। शरग्रहण-संधान-समाकर्षण-मुक्तयः । शतशो लक्ष्यभेदाथ, तस्यैक्ष्यन्त समं जनैः ॥ ४०१ ॥ न यत्र निपतन्ति स्म, नायना अपि रश्मयः । लक्ष्यं तत्राप्यणीयोऽपि भिन्दन्ति स्मार्जुनेपवः ॥ ४०२ ॥ चक्रत्रद्रमतो लोह-वपुषो यत्रपोत्रिणः । निचखान मुखे पञ्च, बाणान् युगपदर्जुनः ॥ ४०३ || राधावेधादिकं तत्तत् पार्थोऽन्यदपि दुष्करम् । करोति स्म यदालोक्य, सुरैरपि विसिष्मिये ॥ ४०४ ॥ चक्र-प्रास-गदा- खङ्गप्रभृतिष्वपि कौशलम् । शस्त्रेषु श्वेतवाहस्य, निर्वाहमगमत् परम् ॥ ४०५ ॥ क्षणात् प्रांशुः क्षणाद्रस्वः, क्षणाद्भूमौ क्षणादिवि। क्षणात् क्रीडन्रधकोडे, तत्र जिष्णुररश्यत ॥ ४०६ ॥ मत्रास्त्राण्यप्यनुध्यान- मात्र जातोदयानि सः । आय - वारुणादीनि कुरुभर्तुरदर्शयत् ॥ ४०७ i ततः समर्थितप्राये, वस्मिन् महति कर्मणि । सभालोके च सर्वस्मित्रानन्दमकरन्दिते ||४०८॥ संवर्त - पुष्करावर्त - निवानप्रियबान्धवः । भुजास्फोटध्वनिः कर्ण-स्फोटकद्भैरवोऽभवत् ॥ ४०९ ॥ ( युग्मम् ) भूभृतः किमु शीर्यन्ते ?, दीर्यते किल मेदिनी । पतन्ति विद्युतः किंस्वित् १, क्षुभ्यन्ति किमुतान्धयः १ ॥ ४१० ॥ विकल्पजातमित्यन्तः कुर्वन्नुद्धान्तमानसः । विसंस्थुलं समुत्तस्थौ, सर्वोऽथ स सभाजनः ॥ ४११ ॥ ( युग्मम् ) आवत्रे पञ्चभिद्रोणः पाण्डवैः सायुधैस्तदा । मूर्तिमान् १ अर्जुनस्य । २ यन्त्रवराहस्य । ३ अर्जुनस्ये । ४ उन्नतः । A0 कुमाराजां कलापरीक्षा || | ॥ ४९ ॥
SR No.090445
Book TitlePandavcharitra Mahakavyam Part 1
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy