________________
क्रमात्ततः ॥ १७ ॥ विक्रमाक्रान्तसामन्त-चक्रश्चक्रिसमप्रभः । क्रमादनन्तबीर्योऽभू-तत्र पात्रीपुरंदरः ॥१८॥ ततो दुर्वा-M रदोर्यः, कृतवीर्योऽभवन्नृपः। यस्य दानेन नाभूव-बर्थिनः पुनरर्थिनः ॥ १९ ॥ अथोग्रमहसां भूमिः, सुभूमि(म)श्चक्रवर्त्यभूत् । अवैरायत धीरेण, यमदग्नेः सुतेन यः ॥ २०॥
अतिक्रान्तेष्वसंख्येपु, ततो राजस्वजायत । प्रशान्तः शान्तनुर्नाम, तेजोधाम प्रजापतिः।। २१ ॥ अन्यायकन्दमुच्छिन्दन् , सिञ्चन्यायमहीरुहम् । समस्तक्षितिपालाना-मुपमानं बभूव यः ।। २२ ।। कर्म मर्माविदन्योन्यं, प्रजानामस्तु दूरतः । यस्य राज्ये त्रिवर्गोऽपि, नाधाराधां परस्परम् ।।२३।। निखिलव्यसनत्याग-पवित्रस्यापि शान्तनोः। विवेकिनोऽप्यभूदेकं, मृगव्ये व्यसनं परम् ॥२४॥ सोऽन्यदाऽनन्यसामान्य-वेगमारुह्य वाजिनम् । दूरवर्धिष्णुपापर्द्धि-बुद्धिम॒गवनं ययौ ॥२५।। तत्रैकं प्रेमरङ्गेण, कुरङ्गीचाटुकारिणम् । दुरात् कुरङ्गमालोक्य, सोऽधिज्यं विदधे धनुः ॥२६॥ स प्रेयसी पुरस्कृत्य, संत्रासतरलेक्षणाम् । | पलायामास सारङ्गः, कांदिशीकमनाः पुरः ॥२७।। स वल्लभानुरोधेन, मन्दं मन्दं प्लुतोऽपि सन् । मनोऽभिराममाराम, विवेश विवशाशयः ।। २८ ।। वाणगोचरभूतेऽपि, दृष्टिमार्गातिगे मृगे। विशति स्म तमाराम, शरं संहृत्य शान्तनुः ॥२९॥ तत्र प्रासादमालोक्य, समारुह्य च विस्मयात् । एकामालोकयामास, स बाला सप्तमे क्षणे ॥ ३० ॥ अभ्युत्थाय महीनाथ-मर्यमादिपूजया । सा सत्कृत्य यथौचित्यं, स्वपल्य न्यबीविशन् ॥३१॥ विलोक्यानर्गलप्रेम-रोमारकरम्बिताम् । सुमुखीं | संमुखासीना, भूपालस्तामभापत ||३२|| कल्याणि ! काऽसि ? कस्यासि, तनया विनयान्विता ?। प्रभातेऽम्भोजिनीवासि, किं
१ उपरितनभूमौ । २ पृश्यम् ।