SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ मुनिसुनतकाध्यम् स्वप्नेऽथ सा सदशताप्रणयादिवैतानेतान् गजेन्द्रगतिरात्तवृपाधिपत्वा ॥ शातोदरी सविभवा सुकुमारगावी चंद्रानना सकलविष्टपसेव्यपादा ॥२४॥ मीनेक्षणा घटकुचा हृदनिम्ननाभिर्गोभीर्यपर्यवसितिः सुनितबपीठा॥ मानोन्नता च कृतभोगिपतिप्रमोदा चेतस्विरत्नममला क्रमशो ददर्श ॥२५!! नागमित्यादि। अथ रत्यनंतरे। गजेन्द्रगतिः गजानामिन्द्रो गजेन्द्रस्तस्येव गतिर्यस्थास्सा तथोक्ता मत्तगजेन्दवत् मंदगमना। आत्तवृषाधिपत्वा अधिपस्य भावोऽधिपत्वं वृषस्थाधिपत्वं तयाक्त' आधीयतेस्म आत्तं प्राप्त' वृषाधिपत्वं यस्यास्सा तथोक्ता संग्रामसर्माधिरत्या “सुकते वृषभे वृपः” इत्यभिधानादन वृषभार्थः श्लेषणोपपीयते । शानोदरी शातसुदरं यस्पास्ता तवेता सिंह यत् कशोदरी “शितं शातं च निशिते कृशे शातं च शर्मणि" इति विश्वः । सविभवा विभवेन सह वर्तत इति सधिभवा । श्रीरिव ससंपत् । सुकुमारगाची सुकुमारं गात्रं यस्यास्सा तथोक्ता पुष्पधामबत्कोमलांगो "सुकुमारन्तु कोमल मृदुले मृड" इत्यमरः । चन्द्रानना चन्द्र इवाननं यस्याः सा तथोक्ता सुधांशुमुखी। सकलविष्टपसेयपादा सकलञ्च तविष्टपच तथोक्त तेन सेव्यौ पादौ यस्यास्सा तथोक्ता चरणी किरणाश्च भर्फवन्निखिललोकाराध्यपादा "पादा रश्म्यंधितुशाः" इत्यभिधानादिकरणार्थः श्लेषत्वेनोपमीयते । मीनेक्षणा मोनाविवेक्षयों यस्यास्सा तथोक्ता मीनलोचना। घरकुचा घटाविव कुचौ यस्यारुला तथोक्ता कुभवत्पीनोन्नतस्तमा । हनिम्ननाभिः सदस्व निम्नो नाभिर्यस्यास्सा तथोक्ता वगंभीरनाभिः । गांभीयंपर्यवसितिः गांभीर्यस्थ पर्यवसितिः तथोक्ता भोधिबद्न भीरत्वपर्यवसाना। सुनितंबपीठा सु शोभनं नितंबस्य पीठं यस्यास्सा तथोक्ता नितंयमेव पीठ यस्या वा तथोका मद्रासनवत् पृथुलश्नोणिप्रदेशा । मानोन्नता च मानेनोन्नता तथोका मानोत्कृष्ट "मान प्रमाणे प्रस्थादी मानश्चिस्तान्नती ग्रहः" इत्यभिधानादत्र मानार्थः श्लेषभावेनोपमीयते। कृन्तभोगिपतिप्रमोदा भोगोऽस्यास्तीति भोगी स चासौ पतिश्च भोगिपतिस्तस्य प्रमोदस्तथोक्तः कृतो भोगिपतिप्रमोदो यस्यास्सा तथोक्ता विधिसभीगींद्रवद्भोगी भर्तृतोषा "भोगी भुजंगमे राज्ञि ग्रामण्यां नापितेऽपि च इति विश्वः । चेतस्विरत्न चतोऽस्त्यासामिति चेतस्विन्यस्तासां रत्न' प्रधानभूतविशिष्ठलिइत्यान्नपुसकत्वं . "मनस्विति भवत्यायें" इति धनंजयः। "रत्नं स्वजातिऽपि" इत्यमरः । अमला न विद्यते मलं यस्यास्साऽमला निधूमवहिवनिर्मलस्वभावा। ला पद्मावती देवी। पतानिध प्रागुक्तषोडशविशेषणस्यस्वभावानिव ।
SR No.090442
Book TitleMunisuvrat Kavya
Original Sutra AuthorArhaddas
AuthorBhujbal Shastri, Harnath Dvivedi
PublisherJain Siddhant Bhavan Aara
Publication Year1926
Total Pages231
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Story
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy