SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ मुनिसुनतकाच्यम् सन्त्य सर्वविषयोऽप्यवरोधमुकोऽप्येकाक्षरक्षणपरोऽप्यनिशं यतीशः ॥ सम्भक्तसर्वविषयोऽजनि सावरोधः पञ्चाक्षनिग्रहपरः परमेष चित्रम् ॥९॥ सन्त्यक्ते त्यादि। एषः अयम् इरिवर्मा। सन्त्यक्तमर्व विषयोऽपि सर्वे च ते विषयाश्च सर्वविषयाः सन्त्यक्ताः सर्वविषया गर्ने स तथोक्तः सर्वगञ्च न्द्रियविषयहितो. ऽपि । सम्भकसविषयः सम्भक्ताः सर्वविषशा येन स तथोक्तः संसेधितविश्वजनपदः "शिणयः विनिता दे जापादेविच" इति विश्वः । अवरोधमुक्तोऽपि अवरोधस्समवरोधस्तेन मुक्तस्त्यकोऽपि अन्तःपुरहितोऽपि । साबरोधः अधरोधेन सह वर्तत इति सावरोधः दुष्कर्मसम्बरसहितः । “श्वरोधस्तिरोधाने शुभ्रान्ते राजवेश्मनि" इति विश्वः । एकाक्षरक्षण परोऽगि एकमक्षमिन्द्रियं येषान्त तथोक्ता एकेन्द्रियाणिनस्तेषां रक्षणन्तथोक्त तस्मिन् परस्तत्पर पकेन्द्रियजीवपालनशक्तोऽपि । पञ्चाक्षानग्रहपरः पञ्च च तान्यक्षाणि च पञ्चाक्षाणि तेषां स्पर्शनादीनां निग्रहः स्वविषयासंचरणं तस्मिन् परस्तत्परः । “अक्षः कर्वे तुषे चर्क शकटे व्यवहारयोः । आत्मशे पाशके चाक्षं तुगलौवर्चलेन्द्रिये" इति विश्वः । परं केवलम् । परोऽरिः परमात्मा च केवलेपरमव्ययम्" इनिभास्करः। अजनि अजायत । जनैङ प्रादुभांधे कत्तरि लुङ्॥ चित्रम् अद्भुनम । अत्र मस्याकमविषयस्य सम्भकग्नविषयत्यम् अवरोधमुकस्य साबरोघत्वम् एकाक्षरक्षणपरस्य पश्चाक्षनिग्रहत्वं च विरुद्धम् तत्परिहारोऽर्थान्तरेण निश्चितमिति भावः । विरोधाभासालंकारः ॥६॥ भा० अ०–आश्चर्य की बात है कि, उक्त मुनिमहाराज विषयों को त्यागकर भी सभी विषयों ( संसार के सभी जनपदों) की सेवा ( भालाई) करने वाले, अवरोध (अन्तःपुर) से मुक्त होने पर भी अवरोध । दुष्कर्मों का सम्बर ) के साथ रहने वाले तथा एकाक्ष (एकेन्द्रियजीव ) के रक्षक होते हुए भी पंचाक्ष ( पंचेन्द्रियों ) को दमन करनेवाले थेn६॥ कुर्वस्तपो जिननिरूपितलक्ष्मलक्षीभूतं प्रभृतविनयो विविधं मुनीन्द्रः ॥ एकादशांगकुशलोऽजनि हेतुयुग्मसामग्र्यसंजनिततीर्थकरत्वपुण्यः ।१०। कुर्वन्नित्यादि । जिननिरूपितलक्ष्मलक्षोभूतम् जिनेन निरूपित जिननिरूपितं तच तल्लक्ष्म च जिननिरूपितलक्ष्म प्रागलक्षमिदानी दक्ष भवतिस्म लक्षीभूतम् “चिह्न लक्ष्म च लक्षणं । लक्ष लक्ष्यच' इत्युभयत्राप्यमरः । जिननिरूपितलक्ष्मणो लक्षीभूत तथोक्तम् जिनप्रणीतखरणानुयागलक्षपास्य लक्ष्यजातमित्यर्थः । विविधम् नामाप्रकारम्। तपः इच्छानिरोधस्तप इति पारिवाज्यम्। कुर्वन् करोतीति कुर्छन् । प्रभूतचिनयः प्रभूता बहुलो विनयो यस्य स तथोक्तः प्रचुरशानादिविनयवान् । "प्रभूत प्रचरं प्राज्यम्" इत्यमरः । मुनीन्द्रः मुनीना
SR No.090442
Book TitleMunisuvrat Kavya
Original Sutra AuthorArhaddas
AuthorBhujbal Shastri, Harnath Dvivedi
PublisherJain Siddhant Bhavan Aara
Publication Year1926
Total Pages231
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Story
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy