SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ ॥अथ द्वितीयः सर्गः॥ अथाभवत्तस्य पुरस्य राजा सुमित्र इत्यन्वितनामधेयः ॥ क्रियार्थयोः क्षेपणपालनार्थद्वयादसत्सद्विषयात्सुपूर्वात ॥ १ ॥ अयेत्यादि । अथ राजधानीनिरूपणानन्तरे । तस्य पुरस्य राजगृहनगरस्य ! क्रियार्थयोः क्रिया परिणतिः प्रवृत्तिर्वा सार्थो थयोस्ती तथोक्तो नयोः। "क्रियार्थो धातुः" इति सूत्रपात् धातुसतोरित्यर्थः । असत्सद्विषयात् असन्ती दुर्जनाश्च सन्तस्सजनाचा. सत्सन्तस्ते एव विषयों गोचरो यस्य तस्मात् । सुपूर्वात् सुशब्द एव पूर्व यस्य तत्सुपूर्व तस्मात् ।क्षेपणपालनार्थवयात् क्षेपणन्तिप्रवणश्च पालनं रक्षणञ्चेति क्षेपणालने तयोरथौं क्षेपणपालनार्थों तयो यन्तथोक्त तस्मात् । सुमित्र इति सुमिनोति निगलाति जायते पालयति इति सुमित्रः । डुमिञ् प्रक्षेपणे पालने इति सुपूर्वकधातुशात्पन्नत्वात् । अन्वितनामधेय इति अन्वितं सार्थक नामधेयं यस्यासी तथोक्तः । "नाम समभागधेयः" इति धेय प्रत्ययः। दुनिग्रहशिष्टपालनसमर्थ इत्यर्थः । राजा भूपः। अभघात् आसीत् । भूसत्तायां ल॥१॥ भा० अ०-सजनों का रक्षण और दुर्जनों का दमन करने के कारण अपने नाम की सार्थक करता हुआ उस राजगृह नगरी का सुमित्र नाम का राजा हुआ । १ । यं राजशब्दासहमन्यपुंसि श्रुत्वा भयाढ्यः सुवरोचिरासीत् ॥ स्तुतिप्रसक्ताः कवयो बभूवुर्योऽपि सत्यं धनदो वभूव ॥२॥ यमित्यादि। अन्यपुंसि अन्यश्चासौ पुमांश्चान्यपुमान तस्मिन् स्वस्मात्परपुरुषे । राजशब्दासहम् गजेतिशब्दो राजशब्दस्तन्न सहत इति राजशम्दासहस्तम् राजाभिधानमसहमानमित्यर्थः । यम् सुमित्रराजम् । ध्रुत्वा आकर्य । सुखरोचिः सुखमाड़ादनन्त पं रोचिः कान्तिर्यस्य स तथोकः "रोचिः शोचिभे ग्लोबे प्रकाशो घोत आतपः” इत्यमरः । चन्द्र इत्यर्थः । भवाढ्यः भयेन भीत्या आन्यः पूर्णः पक्षे भया कारल्या आख्यासमृद्धः । आसीत् अभवत् । कवयः कवीश्वराः। स्तुतिप्रसकाः स्तुती स्तवने प्रसक्ताः प्रीताः। बभूवुः आसन् । भू सत्तायां ,लिट। यक्षोऽपि कुबेरोऽपि । धनदः धनन्ददातीति धनदो द्रव्यदायकः। बभूव आसीत् । सत्वम् तत्थ्यम् । कयौ
SR No.090442
Book TitleMunisuvrat Kavya
Original Sutra AuthorArhaddas
AuthorBhujbal Shastri, Harnath Dvivedi
PublisherJain Siddhant Bhavan Aara
Publication Year1926
Total Pages231
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Story
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy