SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः। चित्रं जिनेन्द्रावसथस्थलेषु प्रमोदबाष्पोदकपिच्छिलेषु ॥ भव्यैः किलोप्सा; सिततण्डुलारते फलन्ति यस्यां बहुश: फलानि ॥५३॥ चित्रमित्यादि । यस्यां पुय्याम् । प्रमोदवाष्पोदकपिच्छिलेषु प्रमादेन सन्तोषेण जातं बाष्पस्याश्रोरुदकं प्रमोवाष्पोदकं "बायोऽश्च पयम्बधूमे च" इति बैजयन्ती। तेन पिच्छिलानि पोभूतानि तेषु। "पिच्छिल स्थानिजलक पडूः स्यात्” इत्यादि हलायुधः । जिनेन्द्रावलथस्थलेषु जिनानामिन्द्रास्तथोक्ता जिनेन्द्राणामावसथा आलयास्तेषां स्थलानि तेषु। भव्यैः चिनेयः । उताः उप्तन्तेस्र उप्ताः क्षिप्ताः। ते प्रसिद्धाः। सिततण्डुलाः सिताश्च ते तण्डुलाध तथोक्ताः शुभ्रतण्डुला इत्यर्थः ! यहशः अनेकशः । फलानि अभीष्टफलानि । फलन्ति निष्पादयन्ति । फलनिष्पत्ती लट् । त्रिजम् अद्भुतम् ॥ ५३॥ भा० ४०-जहाँ भक्ति-विगलित आनन्दाचसे पडोभूत जिनमन्दिरों में भव्यों से बोये गये स्वच्छतण्डुल बार वार, फलते है यह आश्चर्य था । ५३। देवीनां मणिगृहमध्यवत्तिहैमप्रासादे सदलसकर्णिकाम्बुजाभे ॥ आवासे यदधिभुवः कृताधिवासा श्रीरासीवमरविन्दमन्दिरा सा ५४ देवीनामित्यादि । सदलसकर्णिकाम्बुजाभे दलेन पर्णन सह वर्तत इति सदल कर्णिकया सह वर्सत इति सकर्णिकम् अम्युनि जायत इत्यम्बुजं सदलञ्च सिकर्णिकञ्च तदम्बुजञ्चेति सदलसकर्णिकाम्बुजन्तस्याभः समानस्तस्मिन् पर्णकर्णिकासहितारविन्द समान इत्यर्थः । देवीना महिषोणाम् । मणिगृहमध्यवर्तिहमप्रासादे मणिभीरन निर्मिता गृहा मणिगृहास्तेषाम्मध्यन्तस्मिन् वर्तत इत्येवं शीलो मणिगृहमध्यवस्ती हेना निर्मितो हैम: "हेमादिभ्यः" इत्यञ् प्रत्ययः हेममय इत्यर्थः स चासो प्रासावश्च हैमप्रासादः "हादि धनिनां वासः प्रासादो देवभूभुजाम्" इत्यमरः। मणिगृहमध्यवर्तिचासौ हेमप्रासादश्च तथोक्तस्तस्मिन् । यदधिभुवः यस्याः पुर्या अधिभूरधिपस्तस्य राजगृहाधिपस्य। आवासे आलये। शताधियासा कृतोऽधिवासो निलया यया सा तथोक्ता चिहिताश्रया । सा प्रसिद्धा। श्री: लक्ष्मीः । ध्रुवम् निश्चयेन । अरविन्दमन्दिरा अरविन्द कमलन्तदेव मन्दिरमावासो यस्यास्सा तथोक्का कमलनिलयाभिधाना। असीत अभवत् । अस भुवि लङ्॥५४ ॥ इत्यहहासकृतेः काव्यरतटीकायां सुखबोधिन्यां भगवदभिजनवर्णनो नाम प्रथमः सगोऽयं समाप्तः ।। भा० अ०-जहाँ राजमतिषियों के आवासों के मध्यमें पत्र तथा कर्णिका-युक्त कमलकीसी आभाषाले मणिभय सुवर्ण प्रासाद में निवास करती हुई राजलक्ष्मी अपने कमलासमा नाम को चरितार्थ किये हुई थी ।५४ । इति प्रथम सर्ग समाप्त
SR No.090442
Book TitleMunisuvrat Kavya
Original Sutra AuthorArhaddas
AuthorBhujbal Shastri, Harnath Dvivedi
PublisherJain Siddhant Bhavan Aara
Publication Year1926
Total Pages231
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Story
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy