________________
२२
प्रथमः सर्गः । (शंकर जी ) ने जो तीनों पुरों को नष्ट कर डाला है मानों उसी अपकार का बदला लेने के लिये मुक्तकेश-वत किये हुई कीसी राजगृह नाम की पुरी थी॥ ३७॥
बहिर्बणे यत्र विधाय वृक्षारोहं परिष्वज्य समर्पितास्याः ॥
कृताधिकारा इव कामतंत्रे कुर्वन्ति संग विटपर्वतत्यः ॥३८॥ . बहिण इत्यादि । यत्र पुया । बहिणे बहिरह्याने वनाद् यहिहिर्षणन्तस्मिन् । "प्रागन्त" रित्यादिना घनशब्दे नकारस्य णत्वम् । प्रतत्यः लताः । "वतती वल्लरी लतेति" धनञ्जयः । कामिन्य इति ध्वनिः। वृक्षारोहम् वृक्षाणामारोहस्तथोकस्तम् वृक्षावलम्बनमित्यर्थः वृक्षारोह इति दम्पतीबन्धविशेष:-अस्ति हि लतावेषनरनामालिङ्गलम् । विधायकृत्वा । परिप्वज्य आलिङ्गय । समर्पितास्याः समर्पितमास्यं याभिस्ताः समर्पितास्याः समर्पितमुखा था सत्यः। कामतंत्र कामस्य तन्त्र कामतन्त्र रहस्यं तस्मिन् कामशास्त्र । "तन्त्र प्रधाने सिद्धान्ते सूत्रवाये परिच्छदे" "त्यमरः। कुताधिकारा इव कृतो विहितोऽधिकारो याभिस्ता इय । विटपैः शाखाभिः विटपुरुस्सह । “विटपः पल्लवे 'गे विस्तार स्तम्पशाखयोः" इति विश्वः । संगम सम्बन्धम् । कुर्वन्ति विदधति। श्लेषोपमालंकारः ॥ ३८ ॥
भा० अ०-वहाँ बाहरी उपवनो में वृक्षों पर चढ़ी हुई लताएं कामशास्त्र में प्रवीण उपपतियों को आलिङ्गन तथा चुम्बन करती हुई कामिनियों के समान जान पड़ती हैं ॥ ३८ ॥
आरामरामाशिरसीव केलिशले लताकुन्तलभासि यत्र . . सकुङकुमा निझरवारिधारा सीमन्तसिन्दूरनिभा विभाति ॥३६॥
आरामेत्यादि । यत्र पुर्या। लताकुन्तलभासि लता एव कुन्तला अलकास्तर्भासत इति लताकुन्तलभास्तस्मिन् । सान्तः शश्नः। आरामरामाशिरसीव आरामः उपवन तदेव रामा स्त्री तस्याः शिरस्तथोक्त' तस्मिन्निव तद्वद्धासमान इत्यर्थः । केलिशैले केलेः शैलः केलिशैलस्तस्मिन् अथया फेलिश्चासौ शैलश्चेतिकेलिशैलस्तस्मिन् क्रीडाप्रावित्यर्थः। सकुडकुमा कुडकुमेन सह वर्तत इति सकुडकुमा निमजदनितागलितेन कुडकुमेन युक्ता। वान्यार्थ इति यहुबीह सहस्य सभावः । निझरवारिधारा निझरस्य प्रवाहस्य वारि तस्य धारा तथोक्ता । सीमन्तसिन्दूरनिभा सीमन्तस्य सिन्दूरन्तथोक्त तस्य निभेव निभा समा इत्यर्थः । “स्त्रीणां पुसि च सीमन्त" इत्यमरः । “सिन्दुरस्तरुभेदे स्यात्सीन्दूरं रक्तचूर्णके" इति विश्वः । विभाति राजते शोभत इत्यर्थः । मा दीप्तौ लट उत्प्रेक्षालंकारः ॥ ३६॥