________________
मुनिसुव्रतकाव्यम् |
पादयोरनमास्तथोक्ताः पादनमनशीला इव । पाका वनमा पाकेन परिणमनेन अघनमाः कलमा: बीहिसमतान्नमनशीलाः। यदीयाः यस्य मगधदेशस्य संबंधिनस्तथोक्ताः । विशेषाः । विकासिपद्माननया विकासतीत्येवं शीलं विकासि तच तत् पद्म तदेवाननं यस्यास्सा तथा । धरित्र या भूदेव्या । स्वशिरस्सु स्वेषां शिरांसि मस्तकानि तेषु । आम्नायमाणाः आघ्रायन्त इति । भान्ति राजन्ते । भा दोप्तो लटि । प्राकेन विकास्लिपद्मध्ववनतशिरसः संत एवं भान्तीति भावः । उत्प्रेक्षालंकारः ॥ २६ ॥
मा० अ०—–पकजाने से मातृभक्ति से प्रणत के समान पैर की ओर कुके हुए धान के गुच्छे, विकसित पद्ममुखी पृथ्वी से मस्तक द्वारा सुधे जाते हुए सिर पर शोभ रहे है । २६ ।
یام
विभान्ति सस्यान्तरितानि यस्मिन् हेमारविन्दानि मधुल्वणानि ।
आपाययन्त्या इव शालिपुत्रानान्तानि धाच्या करसेचनानि ॥ ३० ॥
विभान्तीत्यादि । यस्मिन् मगधे । सस्यान्तरितानि सस्यानामन्तर्यान्तिस्म तथोक्तानि । मधूणानि मधुना पुष्परसेन उल्वणानि प्रवृद्धानि तथोक्तानि । “मधु मधे पुष्परसे क्षौद्र पि" " स्पष्ट स्फुटं प्रव्यकमुल्वणम्" इत्यमरः । हेमारविंदानि कनककमलानि । शालिपुत्रान् शालय एव पुत्रास्तान् । आपाययन्त्या अपाययतीत्यापाययन्ती तथा पानं कारयन्त्या । धात्र या भूम्या उपमात्रा वा "धात्री स्यादुपमातापि क्षितिरष्यामलक्यपि” इत्यमरः । आत्तानि धृतानि । करसेानानि करस्थानि सेचनानि करसेचनानि सेवनपात्राणि । "संकपात्र तु सेचनम्" इत्यमरः । व भान्ति विराजन्ते । भा दीप्तौ लटि । उत्प्रेक्षालंकारः
॥ ३० ॥
भा० अ० - वहाँ धान्यरूपी पुत्रों को दूध पिलाती हुई धाई के दुग्धपान के समान, क्यारी के बीच २ के पुष्परस से भरे हुए कनककमल शोभते थे । ३० ।
यते दण्डाः कुसुमाभिरामा वितन्यते पर्वचयाचिताङ्गाः ।
मनोजराजस्य जगजिगीषोरुचामरोड्डामरकुन्तलीलाम् ॥ ३१ ॥
यत्रेत्यादि । यत्र मगधविषये । कुसुमाभिरामाः कुसुमैः पुष्पैरभिरामा विराजमाना स्तथोक्ताः । पर्यंचया चितांगाः पर्वणां प्रथिनां चयस्समूहस्तेनाचितं निचितमंगमवयवो येषां ते तथोकाः । “आचितः शकटोन्मेये पलानामयुतद्वये । उन्नेपि संगृहीते स्यात्" इति विश्वः । इक्षाः रसालययः । जगजिगीषोः जेतुमिच्छुर्जिंगीपुः "जेर्लिट समिति" पूर्णात्परस्य कवर्गः । जगतो जिगीघुस्तस्य । मनोजराजस्य मनसि जायत इति मनोजो