SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ १६ मुनिसुव्रतकाव्यम् । मार्गे यैस्ते तथोक्ताः । मयूखाः किरणाः । “मयूख स्विट्करज्वाला" इत्यमरः । शोणितार्द्राः शोणितेन रक्तं न आर्द्राः सार्द्राः । प्रयुकाः व्यापारिताः । कुन्ता इव आयुधविशेषा इच | “कुन्तः प्रासे चंडभावे क्षुद्रजन्तौ गवेधुक" इति विश्वः । स्फुरन्ति विभान्ति । स्फुर स्फुरणं लटि । उत्प्रेक्षालंकारः । रि ुषु निकुञ्जगतेषु पृष्ठलग्नः प्रयुक्ताः कुन्ताः शोणितार्द्रा भवन्ति यथा तथा अत्रापि तमोरिपुत्वात्तरणेरितिभावः । उत्प्रेक्षा ॥ २७ ॥ भा० भ० 2- जिस मगध देशके निविड़ अन्धकारमय बनों में मकरन्द-विन्दु से भींगी हुई तथा पत्तों की ओर से छन २ कर आती हुई सूर्य की किरणें लक्ष्य को बेध कर आई हुई रुधिराक्त वर्छिओं सी हैं ॥ २७ ॥ अभ्रं लिहाग्राणि वनानि यस्मिन्नीयुर्घुवं नाकतरुं निकर्तुम् । को दानवारिप्रतिपन्नवृत्तेः क्षमेत संकल्पितदान गर्वम् ॥ २८ ॥ I अभ्र' लिहेत्यादि । यस्मिन् देशे । अन्र लिहाम्राणि अभ्र आकाशं लेढि स्पृशतीत्यत्र लिहूं । "घहाभ्रालिद" इति खच् । “खित्यमद्विषतश्चानव्ययस्ये" ति मम् । अभ्र लिमय ये तानि तथोक्तानि । धनानि उद्यानानि । नाकतरु' नाकस्य स्वर्गस्य तवृक्षस्तं कहावृक्षमित्यर्थः । निकर्तुं निरपाय निकर्तुं निराकर्तुं मित्यर्थः । धुवं निश्चलं । ईयुः ययुः । इष्ठागतौ लिट् । तथाहि दानवारिप्रतिपन्नवृत्तेः दानस्य त्यागस्य वारि जलं दानवारि वित्तीर्णजलं तेन प्रतिपन्ना अंगीकृता वृत्तिर्जीवनं वर्तनं वा यस्येति स तस्य देवतरोः पक्षे दानवानामसुराणामयो रिपवस्तः सुरैः प्रतिपन्ना वृत्तिस्तस्याः । “प्रतिपन्नः स्त्रीकृतेऽधीते विज्ञातेंगीकृतेपि च” इति विश्वः । "वृत्तिर्वर्त नजीवन" इत्यमरः । संकल्पितदान गर्व' संकल्प्यते स्म संकल्पितो वांछितस्तस्य दान वितरणं तस्माज्ञातो गर्वस्तं । को चा लोकः । क्षमेत सहेत । क्षमुष् सहने लिङ् । न कोऽपीत्यर्थः । दानवारिप्रतिपन्नवृत्तेः संकल्पितानस्योभयत्र साम्ये सति तदर्थमेकत्र कः सदेनेति भावः । अर्थान्तरन्यासः ॥ २८ ॥ I भा० अ० - जहाँ गगन चुम्बी वन कल्पवृक्ष को पददलित करते हुए के समान भाकाश तक पहुंचे हुए हैं। क्योंकि कौनसा स्वाभिमानवृक्ष, दानके जलसे अपनी वृत्ति करने वाले कल्पवृक्ष के अभीष्ट वस्तुप्रदान का गर्व सह सकता है ? ॥ २८ ॥ पाकावनम्राः कलमा यदीयाः पादावनम्रा इव मातृभक्त्या । आश्रायमाणाः स्वशिररसु भान्ति विकासिपद्माननया धरित्र्या ॥ २६ ॥ पाका वनमा इत्यादि । मातृभक्त्या मातरि कृता भक्तिः मातृभक्तिः तया मातरि विधितानुरागेण । पादावनमा इव अवनमन्तीत्येवं शीलाः भवनमाः । “नस्कस्य ज्ञे" त्यादिना रः ।
SR No.090442
Book TitleMunisuvrat Kavya
Original Sutra AuthorArhaddas
AuthorBhujbal Shastri, Harnath Dvivedi
PublisherJain Siddhant Bhavan Aara
Publication Year1926
Total Pages231
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Story
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy