________________
मुनिसुव्रतकाव्यम् । सुनिर्मला: मलात् त्रासादिरूपानिर्गता निर्मला: पक्षे मलादर्शनमोहनीयान्निर्गता निर्मला: सुष्टु निर्मला सुनिर्मलाः । विश्रु तवृत्तरूपाः विश्रुतं प्रसिद्ध तश्च तत्वृत्तं चतुलं च तथोक्त' तदेव रूपं यासा तास्तथोक्ताः पक्षे विशिष्ट श्रुतं विश्रुतं शुतज्ञानं तश्च वृत्तं चारित्रश्च विशु तवृत्त ते गएच रूपं स्वरूपं येषां ते तथोक्ताः । भव्याः तारादिगुणाविर्भवनयोग्याः भव्याः शुभरूपाः पक्षे रत्नत्रयाविर्भयनयोग्याः भव्या: विनेयाः। आप्तगुणाभिरामाः आप्यतेस्म प्राप्तः प्राप्तः स चासौ गुणस्तन्तुथ तथोक्तस्तेन अभिरामाः शोभमानाः पक्षे "इहाप्यते तत्त्वमुत्सया भवभ्रमोत्थदुःखापनिनीषया धुधः। अनन्तसौख्यामृतमोक्षलिप्सया निरुच्यतेऽन्वर्थतयाप्त इत्यसो" इति वचनादाप्तस्सर्वज्ञस्तस्य गुणाः क्षायिकसम्यक्त वादयस्तैरभिरामाः। मुक्ताः मौक्तिकानि पक्षे मुक्ताः मुक्तिमापन्ना: "मुक्ता तु मौक्तिक मुक्तः प्राप्तमुक्त च मोचने" इति विश्वः। सदा सर्वस्मिन् काले । लोकशिरोविभूपाः लोकानां जनानां शिरांसि मस्तकानि तेषां चिभूषाः भुषणरूपाः पक्षे लोकस्य जगतः शिरोऽप्रभागस्तस्य विभूपाः मंडमभूताः । "लोकस्तु भुवने जने" इत्यमरः । भवन्ति जायन्ते । लषालंकारः। यई शस्थपर्वतेषु वेणुसमुद्र तानि मौक्तिकानि जनानां शिरसो भूषणानि भवन्ति तेषु मुक्तिमापन्ना भव्याश्चते त्रिलोकशिखरमंडनतां यान्तीति भावः ॥ २४ ॥
भा० अ०-जिस मगधदेश के पर्वतों में उच्च वंशज, अत्यन्त स्वच्छ अथवा निषि और सुन्दर गोलाकार अथवा शुतज्ञान तथा सद्यारिन-गुणयुक्त, सुन्दर अथवा विनय और आप्त गुणों से युक्त मुक्ता अथवा मुक्त जीव सदा लोगों के शिरोभूषण बने हुए थे। २४ ।
उत्तंगगोत्रप्रभवा भवत्यो भजन्तु भूचक्रबहिष्कृतं किम् ।।
इति स्रबन्तीरुदधि सरन्तीरवैमि यत्रालिगणो रुणद्धि ॥ २५ ॥ उत्तंगेत्यादि । यत्र मगधदेशे। आलिगणः आलीनां संतूनां सखीनां वा गणः समूहः। "आलिः पंकौ च सख्यां व सेतो च परिकीर्तिता" इति विश्वः । उत्तुंगगोत्रप्रभवाः उत्तुङ्गाः उन्नतास्ते च ते गोत्राः पर्वताश्च तथोक्ताः पा उसंगानि श्रेष्ठानि गोत्राणि कुलानि तथोक्तानि तेषु प्रभवाः जाताः। “गोत्र नाम्नि कुले क्षेत्र कानने चित्तवर्मनोः। संभावनीयबोधेऽपि गोत्रः क्षोणीधरे मतः ॥ प्रभवो जलमूले स्थाजन्मभूमौ पराक्रमे । आद्योपल्टब्धयोः स्याने" इत्युभयत्रापि विश्वः । भवत्यः भान्तीति भवत्यः। "भाईबत्वि" त्यौणादिको डवतु प्रत्ययः "नदुगिदि"त्यादिना की। पूज्या यूयं । भूकबहिष्कृतं भुवश्चक बलयं भूत्रक तस्माष्दहिष्कृतो दूरी कृतोऽचधिनियतस्तं दुश्चरित्राल्लोकबाह्यरातं नायकमिति ध्वनिः । किं किंकारणं । "किं पृच्छायां जुगुप्सने" इत्यमरः । भजन्तु श्रयन्तु । भवच्छब्दप्रयोगे प्रथमपुरुषः । भज सेवायां लोट । इति एवं प्रकारेणोक धा । उदधिं उदकानि धीयन्तेऽस्मिन्नित्युधिस्त । "नाम्न्युत्तरपदस्प च” इति