________________
KACHARAKAR
रापेक्षया यथाभिधेयममिसंबध्यते इति, अथ 'किं तज्जीवाजीवाभिगम' इति, अथवा प्राकृतशैल्या 'अभिधेयवलिङ्गवचनानि भवन्तीति न्यायात् किं तदिति-कोऽसावित्यस्मिन्नर्थे द्रष्टव्यं, ततोऽयमर्थ:-कोऽसौ जीवाजीवाभिगम: ? इति, एवं सामान्येन केनचित्प्रमे कृते सति भगवान् गुरुः शिष्यवचनानुरोधेनादराधानार्थ किश्चित्प्रत्युञ्चार्याह-'जीवाजीवाभिगमः' अनन्तरोदितशब्दार्थः 'द्विविधः' द्विप्रकार: प्रज्ञप्तस्तीर्थकरगणधरैः, अनेन चागृहीतशिष्याभिधानेन निर्वचनसूत्रेणैतदाह-ज सर्वमेव सूत्रं गणधरप्रभतीर्थकरनिर्वचनरूपं किन्तु किञ्चिदन्यथापि, केवलं सूत्रं बाहुल्येन गणधरैईब्धं स्तोकं शेषैः, यत उक्तम्-'अत्थं भासइ अरिहा" इत्यादि, 'तद्यथेति वक्ष्यमाणभेदकथनोपन्यासार्थः, स जीवाजीवाभिगमो यथा द्विविधो भवति तथोपन्यस्यत इति भावः, जीवाभिगमश्चाजीवाभिगमश्च, चशब्दो वस्तुतत्त्वमङ्गीकृत्य द्वयोरपि तुल्यकक्षतोद्भावनाएँ, आह-जीवाजीवाभिगम: प्रश्नसूत्रे संवलित उपन्यस्तस्तं तथैवोभार्यासंवलितनिवेचनाभिधानमयतं. असंवलिने संवन्हित विभागानोपात, नैप दोषः, प्रभसूत्रेऽप्यसंवलितस्यैवोपन्यासात् , भिनजातीययोरेकलायोगात् ।। तत्र यद्यपि 'यथोदेशस्तथा निर्देश' इति न्यायोऽस्ति, तथाऽप्यल्पतरवक्तव्यत्वात् प्रथमतोऽजीवाभिगममभिधिसुस्तत्प्रश्नसूत्रमाह
से किं तं अजीवाभिगमे?, अजीवाभिगमे दुविहे पन्नत्ते, तंजहा-रूविअजीवाभिगमे य अरूविअजीवाभिगमे य ॥ (सू०३) से किं तं अरूविअजीवाभिगमे ?, अरूविअजीयाभिगमे दसविहे प०, तंजहा-धम्मत्थिकाए एवं जहा पपणवणाए जाव सेत्तं अरूविअजीवाभिगमे (सू०४)। से किं तं रुचिअजीवाभिगमे ?, रूविअजीवाभिगमे चउबिहे पण्णत्ते, तंजहा-खंघा खंधदेसा
*********