________________
-
-
-
यद्यपि नाम कालवैगुण्यतो मेधादिगुणहीना: प्राणिनस्तथाऽप्यतः स्वल्पमप्यधिगतं भवच्छेदायेत्याईचित्ततया मन्यमानाः, तथा 'तत् li जिनमतमेव 'प्रीयमाणा' असङ्गशक्तिप्रीत्या पश्यन्तः, तथा 'तत् जिममतमेव रोचयन्तः' सालीभावेनानुभवन्तः, के एते इत्याह-'स्थ-15
विरा भगवन्तः' तत्र धर्मपरिणत्या निवृत्तासमञ्जसक्रियामतयः स्थविरा इत्र स्थविराः, परिणतसाधुभावा आचार्या इति गर्भः, 'भग| वन्तः' श्रुतैश्वर्यादियोगाद् भग्नवन्तः कषायादीनिति भगवन्तः पृषोदरादित्वानकारलोपः, 'जीवाजीवाभिगमं नाम' नाम्ना जीवाजीवाभिगम, नामनशब्दस्यात्राव्ययत्वात्तत; परस्य सृतीयेकवचनस्य लोपः, जीवानाम्-एकेन्द्रियादीनाम् अजीवानां-धर्मास्तिकायादीनामभिगमः-परिच्छेदो यस्मिन् तत् जीवाजीवाभिगमम् , इदं चान्वर्थप्रधानं नाम यथा ज्वलतीति ज्वलन इत्यादि, किं तदित्याह-अधी| यत इति 'अध्ययन विशिष्टार्थध्वनिसंदर्भरूपं 'प्रज्ञापितवन्तः' अरूपितवन्तः, एतेन गुरुपर्वक्रमलक्षणः सम्बन्धः साक्षादुपदर्शितः, एतदुपदर्शनादभिधेयादिकमपि सिद्धं यथोकमनन्तरमिति कृतं प्रसङ्गेन ।
से किं तं जीवाजीवाभिगमे ?, जीवाजीवाभिगमे दुविहे पन्नत्ते, तंजहा-जीवाभिगमे य अजीवाभिगमे य ॥ (सू०२) अथास्य सूत्रस्य किमैदम्पर्यम् ?, उच्यते, प्रश्नमूत्रमिदम्, एतच्चादावुपन्यस्यन्निदं झापयति-पृच्छतो मध्यस्थस्य बुद्धिमतो भगवदहदुपविष्टतत्वस्य तत्त्वप्ररूपणा कार्या नान्यस्येति, अक्षरगमनिका वेवम्-सेशब्दो मगधदेशप्रसिद्धो निपातोऽथशब्दार्थे, अथशब्दश्च प्रक्रियायर्थाभिधायी, उक्तं च-"अथ प्रक्रियाप्रश्नानन्तर्यमङ्गलोपन्यासप्रतिवचनसमुचयेश्वि"ति, इह तूपन्यासे, किंशब्दः परप्रभे, स चाभिधेययथावत्स्वरूपानि ते नपुंसकलिङ्गातया निर्दिश्यते, तथा चोक्तम्-"अव्यक्ते गुणसन्दोहे नपुंसकलिङ्गं प्रयुज्यते” ततः पुन
FASNAXXNAHATE
+