________________
अपढमसमयएगिदिया अणंतगुणा ॥ (सू० २४३) ॥ सेतं वसविहा संसारसमावण्णगा जीवा पण्णसा, संसं संसारसमावण्णगजीवाभिगमे॥ 'तत्थे'सादि, तत्र येते एवमुक्तवन्तोदशविधाः संसारसमापना जीवाःप्रज्ञप्तास्ते एवमुक्तवन्तस्तद्यथा-प्रथमसमयकेन्द्रिया अप्रथमसमयैकेन्द्रियाः प्रथमसमयद्वीन्द्रिया अप्रथमसमयद्वीन्द्रियाः प्रथमसमयत्रीन्द्रिया अप्रथमसमयत्रीन्द्रियाः प्रथमसमयचतुरिन्द्रिया अप्रथमसमयपतुरिन्द्रिया: प्रथमसमयपञ्चेन्द्रिया अप्रथमसमयपचेन्द्रिया: प्रथमसमयाप्रथमसमयव्याख्यामं पूर्ववत्॥साम्प्रतमेतेषामेव दशानां क्रमेण स्थिति निरूपयति-पढमसमयेयादि, प्रथमसमयैकेन्द्रियस्य भदन्त ! कियन्तं कालं स्थितिः प्रज्ञप्ता ?, भगवानाह-गौतम! एकं समय,
द्वितीयादिषु समयेषु प्रथमसमयखविशेषणस्यायोगात्, एवं प्रथमसमयद्वीन्द्रियादिसूत्रेष्वपि वक्तव्यं, अप्रथमसमयकेन्द्रियसूत्रे जघन्यतः साक्षुल्लक भवाहणं-षट्पञ्चाशदधिकावलिकाशतद्वयत्रमाणं समयोनं, समयोमता प्रथमसमयेऽप्रथमसमयत्वायोगात् , उत्कर्षतो द्वाविंशति
वर्षसहस्राणि समयोनानि, प्रथमसमयेन हीनत्वात् , अप्रथमसमयद्वीन्द्रियसूत्रे जघन्यं पूर्ववत् , उत्कर्षतो द्वादश संवत्सराः समयोनाः, अप्रथमसमयत्रीन्द्रियसूत्रेऽपि जघन्यं तथैव, उत्कर्षत एकोनपञ्चाशद्वात्रिन्दिवानि समयोनानि, अप्रथमसमयचतुरिन्द्रियसूत्रेऽपि जघन्यं तथैव, उत्कर्षत: षण्मासा: समयोनाः, अप्रथमसमयपधेन्द्रियसूत्रे जघन्यं प्राग्वत् , उत्कर्षतस्रयस्त्रिंशत्सागरोपमाणि समयोनानि, समयोनता सर्वत्रापि प्रथमसमयेन हीना प्रतिपत्तव्या ।। साम्प्रतमेतेषां क्रमेण कायस्थितिमाह-'पढमसमये' इत्यादि, प्रथमसमयैकेन्द्रियो भदन्त ! प्रथमसमयैकेन्द्रिय इति-प्रथमसमयैकेन्द्रियत्वेन कालत: 'कियचिरं कियन्तं कालं यावद्भवति!, भगवानाह