________________
नामणिरत्नानि नान्दामणिरत्नमयानि व्यालकरूपाणि लीलास्थितशालभञ्जिकाच येषां तानि तथा रजतमयाः कूटाः, कूटो - माढ. भाग : ''पण 'उल्लोकाः' उपरितनभागाः, मणयो – मणिमया वंशा येषां तानि मणिवंशकानि, लोहिताक्षा: - लोहिताक्षमयाः प्रतिबंशा येषां तानि लोहिताक्षमशिवंशकानि, रजता-रजतमयी भूमिर्येषां खानि रजतभूमानि प्राकृतत्वात्समासान्तो मकारस्य च द्वित्वं मणिवंशकानि लोहिताक्षप्रतिबंशकानि रजतभूमानि नानामणिरत्नमयानि जालपखराणि । गवाक्षापरपर्यायाणि येषु द्वारेषु तानि तथा पदानामन्यथोपनिपातः प्राकृतत्वात्, अकमयाः पक्षाः पक्षबाहबञ्ध, पक्षाः ( प्रतीताः ) पक्षबाहवोऽपि तदेकदेशभूताः, ज्योतीरसामया वंशा महान्तः पूज्यवंशाः 'वंसकवेल्लुया य' महतां पृष्ठवंशानामुभयतस्तिर्यस्थाप्यमाना वंशाः वंशकवेनुकानि प्रतीतानि रजतमयपट्टिकाः कवेलुकानामुपरिकम्बास्थानीयाः जातरूपमय्योऽवघाटिन्य: आच्छादन हेतुकम्बोपरिस्थाप्यमानमद्दाप्रमाण किलिश्वस्थानीया वज्रमय्योऽवघाटिनीनामुपरिपुञ्छन्यो- निविडतराच्छादनहेतुश्लक्ष्णत रतृण विशेषस्थानीयाः सर्वश्वेतं रजतमयं पुज्छनीनामुपरि वेलुकानामध आच्छादनम्, 'अंकामयकणगकूडत वणिज्जथुभियागा' इति अङ्कमयानि - बाहुल्येनाङ्करामयानि पक्षपक्षषाह्लादीनामङ्करत्नात्मकत्वात् कनकं - कनकमयं कूटं - शिखरं येषां तानि कनककूटानि, तपनीया: - तपनीयमध्यः स्तूपका-लघुशिखररूपा येषां तानि तथा, ततः पदत्रयस्य पद्द्द्वय २ मीलनेन कर्मधारयः, एतेन यत् प्राकू सामान्यत उत्क्षिप्तं 'सेया वरकणगधूभियागा' इति तदेव प्रपश्यतो भाषितं सम्प्रति तदेव श्वेतलं भूय उपसंहारव्याजेन दर्शयति- 'सेया' श्वेतत्वमेवोपमया द्रढयति--- | 'सङ्घदल विमल निम्मलदहिषण गोखीर फेण रथथ निगरप्पगासद्ध चंदधित्सा' त्रिमलं यत् शङ्खदलं- शङ्खशकलं कचित् शङ्खतलेतिपाठस्तत्र शङ्खवलं - शङ्खस्योपरितनो भागो यश्च निर्मलो दधिषनो - घनीभूतं दधि यच गोक्षीरफेनो यश्च रजत निकरस्तद्वत्प्रकाशः-प्र