________________
मुखे हसं दत्त्वा महता शब्देन पूत्करण, यश्च कलकलो-व्याकुलशब्दसमूहस्तद्रवेण महता समुद्ररवभूतमिव कुर्वाणा मेरुमिति योग:, किविशिष्टम् ? इत्याह--'अच्छम्' अतीवनिर्मलजाम्बूनदमयत्वान् रनबहुलत्वाच्च 'पर्वतराज' पर्वतेन्द्रं प्रदक्षिणावर्तमण्डलं चार यथा भवति तथा मेरुमनुलक्षीकृत्य 'परिअडंति' पर्यटन्ति । पुन: प्रश्नयति-तेसि णं भंते!' इत्यादि, तेषां भदन्त! ज्योतिष्कदेबानां यदा इन्द्रश्यवते तदा ते देवा 'इदानीम् इन्द्रविरहकाले कथं प्रकुर्वन्ति ?, भगवानाह-गौतम! यावश्चत्वारः पञ्च वा सामानिका देवाः समुदितीभूय 'तत्स्थानम् इन्द्रस्थानमुपसंपद्य 'विहरन्ति' तदिन्द्रस्थानं परिपालयन्ति, संजातो शुस्कस्थानादिकपञ्चकुलवत् , कियन्तं कालं यावत्तदिन्द्रस्थानं परिपालयन्ति ? इति चेत आह-यावदन्यस्तत्रेन्द्र उपपन्नो भवति ॥ "इंदवाणे णमित्यादि, इन्द्रस्थानं भदन्त ! कियन्तं कालमुपपातेन विरहितं प्रज्ञप्तम् ?, भगवानाह-गौतम! जघन्येनैकं समयं यावदुत्कर्षतः षण्मासान् ॥ 'बहिया ण'मित्यादि, बहिर्भदन्त ! भानुषोत्तरस्य पर्वतस्य ये चन्द्रसूर्यग्रहगणनक्षत्रतारारूपास्ते भदन्त ! देवाः किमूर्योपपन्नाः । इत्यादि *प्राग्वत् , भगवानाह-गौतम! नोद्धोपपन्नका नापि कल्पोपपन्नाः किन्तु विमानोपपन्नास्तथा नो चारोपपन्नाः किन्तु चारस्थितिकाः
अत एव नो गतिरतयो नापि गतिसमापन्नका: 'पक्किगसंठाणसंठिएहि"ति पकेष्टकसंस्थानसंस्थितैयोजनशतसाहसिकैरातपक्षेत्रैः, यथा इष्टका आयामतो दीर्घा भवति विस्तरतस्तु स्तोका चतुरस्रा च तेपामपि मनुष्यक्षेत्रावहिर्व्यवस्थितानां चन्द्रसूर्याणामातपक्षेत्राण्यायामतोऽनेकयोजनशतसहस्रप्रमाणानि विस्तरत एकयोजनशतसहस्राणि चतुरस्राणि चेति, तैरित्यम्भूतैरातपक्षेत्रैः साहनिकाभिः-अनेकसहस्रसङ्ग्याभिर्बाह्याभिः पर्षद्भिः, अत्रापि बहुवचनं व्यक्त्यपेक्षया, 'महयाहये'त्यादि यावत्समुद्ररवभूतमिव कुर्वन्त इति प्राग्यत्, कथम्भूताः' इत्याह-शुभलेश्याः, एतन विशेषणं चन्द्रमसः प्रति, तेन नातिशीततेजसः किन्तु सुखोत्पादहेतुपरमलेश्याका
-
-