________________
त्रादिसत्यापरिमाणं भावनीयम् ॥ सम्प्रति मनुष्यक्षेत्राद्वहिर्वर्तिनां चन्द्रसूर्याणां परस्परमन्तरपरिमाणप्रतिपादनार्थमाह-'मनुष्यनगस्य' मानुषोत्तरपर्वतस्य बहिश्चन्द्रारसूर्यस्य सूर्याचन्द्रस्यान्तरं भवति 'अन्यूनानि' परिपूर्णानि योजनानां पचाशत् सहस्राणि, एतावता चन्द्रस्य सूर्यस्य च परस्परमन्तरमुक्तम् ॥ इदानी चन्द्रस्य चन्द्रस्य सूर्यस्य सूर्यस्य च परस्परमन्तरमाह-'सूरस्स य सूरस्स य' इत्यादि, सूर्यस्य सूर्यस्य परस्परं चन्द्रस्य चन्द्रस्य परस्परमन्तरं भवति योजनानां शतसहस्रं-लवे, तथाहि-चन्द्रान्तरिवाः सूर्याः सूर्यान्तरिताश्चन्द्रा बहिर्व्यवस्थिताः, चन्द्रसूर्याणां च परस्परमन्तरं पञ्चाशयोजनसहस्राणि ५००००, ततश्चन्द्रस्य चन्द्रस्य सूर्यस्य सूर्यस्य घर
परस्परमन्तरं भवति योजनानां लक्षं, एतच्चैवमन्तरपरिमाणं सुचीश्रेण्या प्रतिपत्तव्यं न वलयाकारण्येति ॥ सम्प्रति बहिश्चन्द्रसूर्याणां ४ पलथाऽत्रस्थानमाह-नृलोकादहिः पतयाऽवस्थिताः सूर्यान्तरिताश्चन्द्राश्चन्द्रान्तरिता दिनकरा: 'दीप्ताः' दीप्यन्ते स्म भास्करा इत्यर्थः, पद कथम्भूतास्ते चन्द्रसूर्या:? इत्याह-'चित्रान्तरलेश्याका' चित्रमन्तरं लेश्या च प्रकाशरूपा येषां ते तथा, तत्र चित्रमन्तरं च-IG भन्द्राणां सूर्यान्तरितत्वात् सूर्याणां चन्द्रान्तरितस्वात् , चित्रा लेश्या चन्द्रमसां शीतरश्मित्वात् सूर्याणामुष्णरश्मित्वात् , लेश्याविशेषप्र४ दर्शनार्थमाह-'सुहलेसा मंदलेसा य' सुखलेश्याश्चन्द्रमसो, न शीतकाले मनुष्यलोक इवात्यन्त शीतरश्मय इत्यर्थः, मन्दलेश्याः सूर्या
न तु मनुष्यलोके निदाथसमय इव एकान्तोष्णरश्मय इत्यर्थः, आह च तत्त्वार्थटीकाकारो हरिभद्रसूरि:-"नात्यन्तं शीताश्चन्द्रमस: नात्यन्तोष्णा: सूर्याः किन्तु साधारमा द्वयोरपी"ति, इहेदमुक्तं भवति-यत्र द्वीपे समुद्रे वा नक्षत्रादिपरिमाणं हातुमिष्यते तत्रैकश. शिपरिवारभूतं नक्षत्रादिपरिमाणं तावद्भिः शशिमिर्गुणयितव्यमिति । तत्रैकशशिपरिवारभूतानां ग्रहादीनां परिमाणमाह-'अट्ठासीई.' त्यादि गाथायमपि पाठसिद्धम् ।। बहिः 'मनुष्यनगस्य मनुष्यपर्वतस्य चन्द्रसूर्याणां योगा अवस्थिता न मनुष्यलोक इवान्यान्यन