________________
व्यवस्थितत्वात् उक्तं च सूर्यप्रज्ञतौ--"जया णं लवणसमुद्दे दाहिणडे दिवसे भवद तया णं उत्तरवि दिवसे हवइ, जया णं उत्त
रडे दिवसे हुवइ तथा णं लवणसमुद्दे पुरत्थि मपञ्चत्थिमेणं राई भवर, एवं जहा जंबूद्दीवे दीवे तद्देव” तथा “जया णं धायईसंडे दीवे दाहिण दिजसेनि जया उत्तर दिवसे हव तया णं घायइसंडे दीवे मंदराणं पव्बयाणं पुरत्थिमपचत्थिमेणं राई हवाई, एवं जहा जंबूद्दीवे दीवे तहेव, कालोए जहा लवणे तहेब" तथा "जया णं अभितरपुक्खर दाहिणडे दिवसे भवइ तथा णं उत्तरडे दिवसे हवछ, जया णं उत्तरडे दिवसे हवइ तथा णं अभितरडे मंदराणं पुत्रयाणं पुरात्थिमपचत्थिमेणं राई हवइ, सेसं जहा जंधूदीवे तहेव" आह-लवणसमुद्रे षोडश योजनसहस्रप्रमाणा शिखा ततः कथं चन्द्रसूर्याणां तत्र तत्र देशे चारं चरतां न गतिव्याघातः ?, उच्यते, इह लवणसमुद्रवर्जेषु शेषेषु द्वीपसमुद्रेषु यानि ज्योतिष्कविमानानि तानि सर्वाण्यपि सामान्यरूपस्फटिकमयानि यानि पुनर्लवणसमुद्रे ज्योतिष्क विमानानि तानि तथाजगत्स्वाभाव्य दुवकस्फाट नस्वभावस्फटिकमयानि, तथा चोक्तं सूर्यप्रज्ञप्तिनिर्युक्तौ – “जोइसियविमाणाई सब्वाई हवंति फलिहमइयाई । दगफालियामया पुण लवणे जे जोइसविमाणा ॥१॥” ततो न तेषामुदकमध्ये चारं चरतामुदकेन व्याघातः, अन्यच शेषद्वीपसमुद्रेषु चन्द्रसूर्यविमानान्यधोलेश्याकानि यानि पुनर्लवणसमुद्रे तानि तथा जगत्स्वाभाव्यादूर्ध्वलेश्याकानि तेन शिखायामपि सर्वत्र लवणसमुद्रे प्रकाशो भवति, अयं चार्थः प्रायो बहूनामप्रतीत इति संवादार्थमेतदर्थप्रतिपादको जिनभद्रगणिक्षमाश्रमणविरचितो विशेषणवतीमन्थ उपदर्श्यते— “सोलस साहसियाए सिहाए कह जोइसियविघातो न भवति ?, तत्थ भन्नइ - जेण सूरपत्तीए भणियं - " जोइसिय विभाणाई सब्वाई हवंति फलिमइयाई । दुगफालिया मया पुण लवणे जे जोइसविमाणा ॥ २ ॥ " जं सव्वदीवसमुद्देसु फालियामयाई लवणसमुद्दे चैव केवलं दगफालियामयाई तत्थ इद