________________
लवणसमुद्दे ?, गोयमा ! जबुद्दीवे दीवे नो खलु ते लवणसमुद्दे ॥ लवणस्स णं भंते! समुहस्स पदेसा जंबूद्दीवं दीव पुट्ठा ?, हंता पुट्ठा। ते णं भंते । किं लवणसमुद्दे जंबूदीवे दीवे?, गोयमा ! लवणे णं ते समुद्दे नो खलु ते जंबुद्दीवे दीवे ॥ जंबुद्दीवे णं भंते! दीवे जीवा उद्दाहला २ लवणसमु पञ्चायति, गोयमा ! अत्थेगतिया पश्चायंति अस्थेगतिया नो पश्चायंति ॥ लवणे णं भंते! समुद्दे जीवा उदाता २ जंबुदीने २ पनाति ? गोयमा ! अत्येगतिया पञ्चायंति अत्थेगतिया नो पचार्यति । ( ० १४६ )
'जंबूद्दीवरसणं भंते!" इत्यादि, जम्बूद्वीपस्य णमिति पूर्ववत् भदन्त ! द्वीपस्य 'प्रदेशाः ' खसीमागतचरमरूपा लवणं समुद्र 'स्पृष्टाः ?' कर्तरि कप्रत्ययः स्पृष्टवन्तः काक्का पाठ इति प्रश्नार्थत्वावगतिः पृच्छतश्चायमभिप्रायः यदि स्पृष्टास्तर्हि वक्ष्यमाणं पृच्छधते नो चेत्तर्हि नेति भावः, भगवानाह - हंतेत्यादि, 'हन्त' इति प्रत्यवधारणे स्पृष्टाः ॥ एवमुक्ते भूयः पृच्छति -- ' ते ण 'मित्यादि, ते भ दन्त ! स्वसी मागतच रमरूपाः प्रदेशाः किं जम्बूद्वीप: ? किंवा लवणसमुद्रः ?, इह यद् वेन संस्पृष्टुं तत्किञ्चित्तद्व्यपदेशमभुवानमुपलब्धं यथा सुराष्ट्रेभ्यः संक्रान्तो मगधदेशं मागघ इति, किञ्चित्पुनर्न तद्व्यपदेशभाग् यथा तर्जन्या संस्पृष्टा ज्येष्ठाऽङ्गुलिज्र्ज्येष्ठैवेति, इहापि च जम्बूद्वीपचरमप्रदेशा लवणसमुद्रं स्पृष्टवन्तस्ततो व्यपदेशचिन्तायां संशय इति प्रश्नः, भगवानाह - गौतम ! जम्बूद्वीप एव णमिति | निपातस्यावधारणार्थत्वात् ते चरमप्रदेशा द्वीपो, जम्बूद्वीपसीमावर्त्तित्वात् न खलु ते जम्बूद्वीपचरमप्रदेशा लवणसमुद्र:, (न ते) जम्बूद्वीपसीमानमतिक्रम्य लवणसमुद्रसीमानमुपगताः किन्तु स्वसीमागता एव लवणसमुद्रं स्पृष्टवन्तस्तेन तदस्थत्तवा संस्पर्शभावात् तर्जन्या