________________
'से केणद्वेणं भंते ! एवं वुच्चइ' इत्यादि प्रभसूत्रं सुगम, भगवानाह-'गोयमे यादि, गौतम ! विजये द्वारे विजयो नाम, प्राकृतलादु अध्ययत्वास नामशब्दात्परस्य टावचनस्य लोपस्ततोऽयमर्थ:-प्रवाहतोऽनादिकालसन्तविपतितेन विजय इदि नांना देवः 'महर्द्धिक महती ऋद्धिा-भवनपरिवारादिका यस्यासौ महद्धिक: 'महाद्यतिकः' महती शतिः शरीरगता आभरणगता च यस्यासोर महाद्युतिकः, तथा महद् वलं-शारीरः प्राणो यस्य स महाबलः, तथा महद् यश:-ख्यातिर्यस्यासौ महायशाः, महेश इत्याख्या-प्रसिद्धियस्य स महेशाख्यः, अथवा ईशनमीशोभावे घबप्रत्ययः ऐश्वर्यमित्यर्थः ईश ऐश्वर्ये' इति वचनात् तत ईशनमैश्वर्य आसनः ख्याति अन्त
ति यः स ईशाख्यः महांश्वासावीशाख्यश्च महेशाख्यः, कचित् 'महासोक्खें' इति पाठस्तत्र महत् सौख्यं प्रभूतसङ्केद्योदयबशाद् यस्य स महासौख्यः पल्योपमस्थितिकः परित्रसति, स च तन्त्र चतुर्णा सामानिकसहस्राणां चतसृणामप्रमहिषीणां सपरिवाराणां प्रत्येकमेकैकसहस्रसलपपरिवारसहितानां तिमृणां अभ्यन्तरमध्यमबाह्यरूपाणां यथाक्रममष्टदशद्वादशदेवसहस्रमायाकानां पर्षदां सप्तानामनीकानां-यानीकगजानीकरथानीकपदायनीकमहिषानीकगन्धर्वानीकनाट्यानीकरूपाणां सप्तानामनीकाधिपतीनां षोडशानामामरक्षसहस्राणां विजयस्य द्वारस्य विजयाया राजधान्या अन्येषां च बहूनां विजयराजधानीवास्तव्यानां देवानां देवीनां च 'आहेवच्चति आधिपत्यम् अधिपतेः कर्म आधिपत्यं रक्षा इत्यर्थः, सा च रक्षा सामान्येनाप्यारक्षकेणेव क्रियते तत आह-पुरस्य पतिः पुरपतिस्तस्य कर्म पौरपत्यं सर्वेषामप्रेसरत्वमिति भावः, तशाग्रेसरत्वं नायकत्वमन्तरेणापि खनायकनियुक्ततथाविधगृहचिन्तकसामान्यपुरुषस्येव (स्यात्) ततो नायकलप्रतिपत्त्यर्थमाह-'स्वामित्वं स्वमस्यास्तीति स्वामी तद्भावः खामित्वं नायकत्वमित्यर्थः, तदपि च नायकलं कदाचित्पोषकत्वमन्तरेणापि भवति यथा हरिणयूथाधिपतेहरिणस्य तत आइ-भर्तृत्व-पोषकत्वं 'डुभृञ् धारणपोषणयोः'