________________
[पमयं वनं तच खभावादतिकोमलं भवति रुतं - कपसपक्ष्म बूरो- वनस्पतिविशेषः नवनीतं प्रक्षणं तुलं- अर्कतूलं तेषामिव स्पर्शा येषां सानि तथा, तथा सुविरचितं रजखाणं प्रत्येकमुपरि येषां तानि सुविरचितरजखाणानि 'उवचिय (खोम) दुगुल पट्ट पडिच्छायणे' | इति उपचितं - परिकर्मितं यत्क्षौमं दुकूलं कार्पासिकं वस्त्रं तत्प्रतिच्छादनं - रजत्राणस्योपरि द्वितीयमाच्छादनं प्रत्येकं येषां तानि तथा, तत उपरि 'रत्तंसुय संबुया' इति रक्तांशुकेन- अतिरमणीयेन रक्तेन वस्त्रेण संवृतानि - आच्छादिवानि रक्तांशुकसंवृतानि अत एव सुरम्याणि 'पासाइया' इत्यादि पदचतुष्टयं प्राग्वत् ॥ 'तेसि ण' मित्यादि, तेषां च सिंहासनानामुपरि प्रत्येकं प्रत्येकं विजयदृष्यं - वस्त्रवि शेषः प्रज्ञप्तः, आह च मूलटीकाकारः – “विजय दूष्यं वस्त्रविशेष" इति । 'ते पण 'मित्यादि, तानि च विजयदूष्याणि 'शङ्खकुन्द| दकरजोऽमृतमनिपुङ्गवतिकानि वा प्रतीतः कुन्देति कुन्दकुसुमं दकरज:- उदककणाः अमृतस्म - क्षीरोदधिजलस्य म थितस्य यः फेनपुञ्जो - डिण्डीरोत्करस्तत्स निकाशानि - तत्समप्रभाणि पुनः कथम्भूतानि ! इत्यत आह - 'सब्बरयणामया' सर्वात्मना रक्रमयानि 'अच्छा सण्हा जाव पढिरुवा' इति विशेषणदन्यकं प्राग्वत् ॥ 'तेसि ण'मित्यादि तेषां सिंहासनोपरिस्थितानां विजयदूष्याणां प्रत्येकं प्रत्येकं बहुमध्यदेशभागे वज्रमयाः वञ्चरत्नालक : 'अङ्कुशाः' अङ्कुशाकारा मुक्तादामावलम्बनाश्रयभूताः प्रक्षप्ताः, तेषु च वामयेष्वङ्कुशेषु प्रत्येकं प्रत्येकं 'कुम्भार्य' मगधदेशप्रसिद्धं कुम्भप्रमाणमुक्तामयं मुक्तादाम प्रज्ञनं, तानि च कुम्भाप्राणि मुक्तादामानि प्रत्येकं प्रत्येकमन्यैश्चतुर्भिः कुम्भाभैर्भुक्तादामभिस्तदर्धोषप्रमाणमात्रै: 'सर्वतः सर्वासु दिक्षु 'समन्ततः' सामस्त्येन संपरिक्षिप्तानि, 'ते णं दामा तवणिजलंबूसगा नाणामणिरयण विविधद्दारद्धद्दारउवसोभियसमुदाया ईसिमनमनमसंपत्ता पुव्बावरदाद्दिणुत्तराग एहिं वापहि