SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ र रामस्नेहकदंबकाविर्भाव बहिनिकाययंतीव निजनयनाभ्यां हर्षाणि मुमोच । हनुमतोक्तं-हे मातरधुना स्वया चिता न कर्तव्या । रामोऽधुनवात्र सैन्ययुतः समागमिष्यति । वैरिणं च निहत्य विरहदुःखितायास्तब शुद्धि 2 करिष्यति । इत्युक्त्वा हनुमांस्ततो निःसृत्याग्निना लंका प्रज्ज्वाल्यारामांश्च भक्त्वा द्वारपाला निहत्य सषों राम समीपे समागतः । रामं नत्वा सर्वोदंतपूर्वकं तेन सीतावृत्तांतो निवेदितः । अथ रामोऽनेकविद्याधरवंदयुतो ॥१५॥ भामंडलहनुमत्सुग्रीवविराधादिसुभटसहितो भूरिसैन्यसंकलितो लंकासमीपे समागतः ।। इतो विभीषणेन रावणायोक्तं हे बंधी ! अधुनापि त्वं रामं प्रणम्य सोता समर्पय? अन्यथायं र मस्तव कुलक्षयं करिष्यति । इति श्रुत्वा क्रुद्धेन रावणेन स निर्भत्स्य॑ निष्कासितः । सोऽपि रामसमीपे समागत्य प्रणाम । कृतवान् । रामेणाप्यवसरं ज्ञात्वा तस्मै बहुमानं दत्वा प्रोक्तमहं लंकाया गज्यं तुभ्यं दास्यामि । अथ रावणोऽपि निजसैन्यं मेलयित्वा समागतः । परस्परं द्वयोः सैन्ययोर्महायुद्धं प्रवर्तितं । रावर्णन निजसंन्यं भन्नं विज्ञाय ॥९५ लक्ष्मणोपरि शक्तिप्रहारो मुक्तस्तेन लक्ष्मणो निश्चेतनीय भूमौ पतितस्तदा शोकातुरो रामो नाना वधान विलापान कर्तुं प्रवृत्त: । रामसैन्यं सर्वमपि शून्यं जातं । इतश्चंद्र विद्याधरणागत्य रामाय प्रणम्य चोक्त-हे स्वामिन् ! शक्त्या हतो जनः सूर्योदयं यावञ्जीवति, तस्य जीवनोपायश्चैकोऽस्ति । भरतमातुलस्य विशल्याभिधाना महासती पुत्री वर्तते । तस्याः करस्पर्शनतो लक्ष्मणो ननं शल्यरहितो भविष्यति । तत् श्रुत्वा हनुमता प्रोक्तं तां विशल्यां महासती तज्जनकद्रोणमेघसहितामहमधुनैवात्रानयिष्यामि । ततो रामाज्ञामादाय भामंडलहनुमंतौ वियन्मार्गेण तत्र
SR No.090433
Book TitleDanadikulaksangrah
Original Sutra AuthorDevendrasuri
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages292
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy