SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ श्री दापयित्वा मां सेवक सनाथीकुरु । तत् श्रुत्वा कृपालुरामेण शोघ्रमेव तत्रागत्य मायाविनं सुग्नीबवे पधरं विद्याधर दानादि-निर्जीत्य सत्यसुग्रीवाय तद्राज्यं समर्पितं । तुष्टोऽथ सुग्रोबो निजाण्टादशकन्यानां पाणिग्रहण कृते रामं निमंत्रयामास । वृत्तिः रामेणोक्तं-प्रथमं त्वं सीताणुद्धि समानीय मम मनःसंतापं दूरीकुरु । पश्चात्त्वदुक्तं सर्वमप्यहं करियामि । तत् श्रुत्वा विराधसग्रीवो सीताशुद्धयर्थ विमानस्थिती चलितौ । इतस्ताभ्यां रावणकतखड़गप्रहारतो भूमौ पतिती भामंडल यदातिरत्नजटोविद्याधरो दृष्टः । वेदनाक्रांतेनापि तेन रावणकृत सीतापहरणादिसर्वोऽपि वृत्तांतस्ताभ्यां कथितः । 31 11९४NIA तत् श्रुत्वा तो द्वावपि तूर्ण रामसमीरे समागत्य तद्वृत्तांतं कथयामासतुः । ततो रामाज्ञ या सुग्रीवो हनुमंतमाकार्य रामनामांकितमुद्रिकयोपेतं सीताप्रवत्तिशुद्धयर्थ लंकापां प्रेषितवान । ल हनुमानपि रामं प्रणम्य ततो द्रुतं गगनाध्वना लंकायां प्राप्तः । तत्र विभीषणकुंभकर्णादिपरिवार परिवेष्टितं सभःस्थित * रविणं नमस्कृत्य तेनोक्तं-हे राजन् ! स्वं महासती सीता मुंच ! नो चेद्रामः कमलनालमिव तव मस्तकं छेदयिष्यति । तत् श्रुत्वा क्रोधोद्धतेन रावणेन हनुमद्गृहणार्थ निजसेवका आदिष्टाः । इतो हनुमान् रावणं पादप्रहारतोऽविलंब सिंहासनादधो निपात्य स्वयं प्रपलाय्याशोकवाटिकायां समागतस्तत्राशोकवृक्षतले मुख मवनतीकृत्य हस्ततलविन्यम्तमस्तका मलीनचीवराणि दधाना स्नानांगविलेपनादिरहितोष्णोष्ण निः श्वामानिष्कासयंती रामनामकतानलीना सीता तेन दृष्टा । सूर्णं तस्याः समीपमागत्य तेन तां महासती प्रणम्य रामनामांकितमुद्रिका तस्या हस्ते दत्ता कथिता च रामकुशलोदंतपूर्वक सकलापि वार्ता । मुद्रिकादर्शनतः सहर्ष चमत्कुता सीता निजहृदयगतनिस्सीम
SR No.090433
Book TitleDanadikulaksangrah
Original Sutra AuthorDevendrasuri
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages292
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy