________________
श्री दानादि
कुलक
वृत्तिः
।।९६।।
गत्वा तञ्जनकसहितां तां विशल्याभिधानां महासती मानयामासतुः । तस्याः करस्पर्शनतो द्रुतमेव सा शक्तिर्लक्ष्मणशरीराद् दूरं गता । तदा रामसं ये जयजयारावो जातः । परिणायिता च विशल्या द्रोणमेघराजा लक्ष्मणाय । अथ पुनरपि द्वयोः सैन्ययोर्महायुद्धानि बभूवुः । प्रांते रावणेन निजसैन्यं सकलमपि प्रायो नष्टं ज्ञात्वा लक्ष्मणोपरि चक्रं मुक्तं । तच्चक्रं तु लक्ष्मणं प्रदक्षिणीकृत्य तस्यैव हस्ते स्थितं लक्ष्मणेन रावणायोक्तं- अरे रावण ! अधुनापि त्वं सीतां प्रत्यर्पय । नोचेदिदं चक्रं ते गलनालं छेदयिष्यति । एवमुक्तोऽपि रावणो यदा रणान विर राम तदा लक्ष्मणेन तचक्रं रावणोपरि मुक्तं । ततरिछन्नमस्तको रावणो मृत्युमासाद्य ज्येष्टकृष्णैकादशी दिवसे चतुर्थे नरके गतः । देवैश्व लक्ष्मणोऽयमष्टमो वासुदेव इत्युद्घोषणपूर्वकं तस्योपरि पुष्पवृष्टिः कृता । अथ रामः परिवारयुतो लंकायां प्रविश्य विभीषणं च राज्ये संस्थाप्य चिरकालविरहदुःखविह्वलामखंडितशीलां महासती सीतां गृहीत्वा ततो निवृत्यायोध्यायां समागतः । भरतादिभिर्मह्ताडंवरेण तस्य प्रवेशमहोत्सवः कृतः । सुग्रीवहनुमद्भामंडलाद्याः सर्वेऽपि रामचरणौ प्रणिपत्य निजनिजस्थान के समागताः । अथ तत्र रामः सीतया सह विषयसुखानि भुंजारो निजकालं गमयति.
इतः सीतायाः कुक्षौ गर्भोत्पत्तिर्जाता । गर्भप्रभावतश्च तस्याः सम्मेतशिखरयात्राया दोहदः समुत्पन्नः । इतस्तस्या दक्षिणेक्षणं स्फुरितं तावता नागरमहाजन रामाग्रे समागत्य प्रोक्तं - हे स्वामिन्! लोका भवतोऽपवादं बहु जल्पति यद्बलात्कारेणापहृता सीता ध्रुवं परस्त्रीलंपटेन रावणेन भूक्तैव भविष्यतीति । तत् श्रुत्वा रामो
शीलकुलक
सोता
कथा
॥२६॥