________________
। ८७ ।।
मिथिलायां नगर्यां जनकराजा राज्यं करोति । तस्य विदेहाख्या रात्री अन्यदा तया पुत्रपुत्रीयुगल प्रसूतं । तावता कर्मयोगेन पूर्वभववैरिणा देवेन पुत्ररत्नमपहृत्य वैताढ्यपर्वते समानीय मुक्तं दृष्टं चतवत्यदक्षिणश्रेणिस्वरथनूपुरनगराधिपतिचंद्रगतिनामराज्ञा वनमागतेन । सोऽय तं बालमादाय स्वप्रियाये चंद्रमत्ये भामंडल इत्यभिधानपूर्वक पुत्रीकृन्य समर्पितवान् ।
अथ जनकराजादिभिः पुत्रापहरणं ज्ञात्वा शोकपीडितः पुत्रीमुखं वीक्ष्य शीतलीभूय तस्याः सीतेति नाम दत्तं । अथ सा सीताऽनुक्रमेण यौवनावस्थां प्राप्ता । इतो मायूरणालपुराधिपतिम्लेच्छनृपो मिथिलानगरी परि age स्थित । इतोऽयांच्यायां नगर्या दशरथाभिधानो राजा राज्यं करोति । तस्य कौशल्यामुमित्रा के यी सुप्रभा भिधानचतुमहिषीकुक्षिसमुद्भवाः क्रमेण रामलक्ष्मण भरत शत्रुघ्नाभिधानाश्चत्वारः पुत्रा आसन् । अश्र जनकराज्ञा दूतं प्रेध्य दशरथाय निजयत्रुकृतपराभवदूरीकरणार्थं सहायो मार्गितः । दशरथ राजापि स्वमित्रसहायार्थं निजसकलसंन्ययुक्तः प्रयाणाभिमुखो बभूव । तदा रामचंद्रेण सविनयं प्रणामं कृत्वा निजजनकाय कथितं हे पितरन कार्ये भवद्भिः कृपणं विधायाहमेव प्रत्यः । महतार द्वेण राज्ञा तत्प्रतिपन्नं । अथ पितुराज्ञामादाय सलक्ष्मणो रामो निजसंन्तो मन्त्रिसमीपे समागतो म्लेच्छ सह च युद्धं कृत्वा तान् विजित्य तद्देशाद्दूरे निष्कासयामास । अथ रामपराक्रमो सितमानसेन जनकेन चितितं ममेयं दुहिता सीता रामचंद्रयोग्यैव । इति विचार्य जनकेन राममापृच्छय तेन सार्धं सीताया उद्वाहो मेलितः । अथ रामः सैन्ययुतस्ततो निवृत्त्यायोध्यायामागतः । इतो
।।८७।।