________________
प्रोल
कुलकवृत्तिः
राजीमत कथा
॥८६॥
गहायां प्रविष्टा । जलेनार्दीभूतानि बस्त्राणि च शरीरतो दुरीकृत्य गुहायां मुत्कलोकतानि । तत्र विस्तृतांधकारदानादि
तस्तया गुहामध्यस्थितो रथनेमिर्न ज्ञातः, रथनेमिस्तु तां विवसनां निरीक्ष्य मदनसुभट मुक्तबाणधोरणीनिविद्धो ध्वस्तधेर्यो बभूव । ततो मम्मथोन्माधितमानसो रथनेमिस्तांप्रति जगाद-हे भद्रे ! प्रथमत एवावयोवृहस्नेहो वर्तते । ततोऽत्र प्रथमं भोगविलासं कृत्वा मनसि व संतोषमादाय पश्चात शुद्ध चारित्रं पालयिष्याव: । इति श्रुत्वा महासती राजीमती वस्त्रे निजदहमाच्छाद्य तन्मनोभवनोभवोन्मत्तगजेंद्रांकुश निभं घनगंभीरभारत्या वचनमुबाच
भो महानुभाव ! प्रथमं गृहस्थावस्थायामपि मया त्वं प्रतिबोधितः, पूनस्त्वं महति कले समस्नोऽसि, वियनद्वचनो| चारमपि कर्तुं न युज्यते । आवाभ्यां भगवत्समीपे महाव्रतान्यंगीकृत्य सर्वेऽपि भोगा बांता: संति, बांतभोगेच्छां कुर्वाणाः श्वेव जगतीतले लघुतां प्रयांति । इत्यादिसुवचनः प्रतिबोधितो रथने मी राजीमती प्रति कथयामास-हे सति ! त्वं धन्यासि । कुपथगामिनं मां त्वया प्रतिबोधसुभाषितदवरकराकष्य सन्मार्गे समानीत इस्यूक-त्रा स ततो नि:सृत्य श्रीनेमिप्रभोः समीपे तत्त्रमादस्थानमालोच्य शुद्धचारित्रं प्रपाल्य केवलज्ञान प्राप्य मोक्ष गतः ।
राजीमस्यपि शुद्धमनसा निरबद्यचारित्र प्रपाल्य केवलज्ञानमासाद्य शिवं गता । ।। इति राजीमतीकथा ।। K] पज्जलिउवि हु जलणो, सीलप्पभावेण पाणीअं होई ॥ सा जयउ जए सीआ, जीसे पयडा जसपडाया ।।६।।
व्याख्या-सा सीता सती जगति लोके जयतु, यस्या यशःपताका प्रकटा वर्तते, यतो यां प्रति प्रज्ज्वलितो धगधगायमानोऽपि ज्वलनोऽग्निः शीलप्रभावेण पानीयं जल भवति ।।६।। सीतायाः कथा वेत्थं--
।।८६॥