SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ । ८५ ।। लोकानां यानि धवलमंदिराण्यावासास्तगारोहणे प्रवरनिःश्रेणिसदृशं ज्ञेयं ||४|| सिरि उग्गसेणधूया, राईमह लहउ सीलवईरेहं । गिरिविवरगउ जीए, रहनेमी ठाविउ मग्गे ||५|| व्याख्या - श्री उग्रसेन राजपुत्री राजीमती शीलवतीनां मध्ये रेखां लभतु यया गिरिविवरे गृहामध्ये प्राप्तो रथनेमिमार्गे स्थापितः ||५|| राजीमतीकथा चेत्थं द्वारिकानगर्यां श्रीनेमीश्वरस्य दीक्षाग्रहणसमये गृहस्थया राजीमत्या सह स्थनेमी रागं धर्तुं लग्नः । तस्यै चालंकारतांबूला दोन मुंचति । राजमती तु तं पतिलघुभ्रातरं मन्यमाना निर्विकारतया गृह्णाति । अर्थवदा तेन शुद्धशीलवती राजीमतीमेकांत मिलित्वा कथितं त्वमद्याप्यपरिणीता वर्त्तते ततो मया सह पाणिग्रहण कुरु ? राजीमत्या चितितं मयायं युक्त्या प्रतिबोध्य इति विचार्य तयोक्त त्वं ममावासे भोक्तु समागच्छेरित्युक्त्वा राजीमती स्ववासे गता । इतो रथनेमिरपि तत्रागतस्तदा राजीमल्या मुंजमानया मदनफलमालाय वमनं कृतं । ततस्तया रथनमये प्रोक्तं त्वममुं मया वमितमाहारं भक्षय ? तेनोक्तं - हे सुभगे ! किमहं श्वास्मि यद्वमिताहारं भक्षयामि ! तयोक्तमेत्रमेव वमिताहारवत्तव वृद्धभ्रात्राहं परिहृतास्मि । एवंविधां च मां त्वं कथं वांच्छसि ? तत् श्रुत्वा रथनेमिर्लज्जितः सन् स्वगृहं गतः । इतः श्रीनेमिप्रभो, केवलज्ञानं समुत्पन्नं । तदा श्रीकृष्णः परिवारयुतो महोत्सवपूर्वकं प्रभुं वंदितुं समागतः । तत्र राजीमतीरथनेमिप्रभृतिभिर्दीक्षा गृहीता । अथैकदा वर्षाकाले रथमिर्गृहामध्ये कायोत्सर्गेण स्थितोऽस्ति इतो राजीमती श्रीनेमये वंदितुं समागच्छंती मार्गे मेघवृष्ठितस्तस्यामेव ॥८५॥
SR No.090433
Book TitleDanadikulaksangrah
Original Sutra AuthorDevendrasuri
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages292
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy