SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ श्री दानादि कुलक वृत्तिः टा नारदर्षि जनकराज्ञोंत: पुरे समायातस्तदा तस्य भयानकं रूपं वीक्ष्य भीतया सीतयानंदितं । तेन रुष्टो नारदो वैताढ्य गत्वा चंद्रगतिपुत्रभामंडलाय सीताया रूपादिगुणानां प्रशंसां कृतवान् । तत् श्रुत्वा मदनातुरो भामंडलो विह्वलतां प्राप्तः । चंद्रगतिराज्ञा सद् वृत्तांतं ज्ञात्वा मानंडलायोक्त है पुत्र ! त्वं खेदं मा कुरु । ते सीतापरिणयनमनोरथमहं सफलीकरिष्यामीत्युक्त्वा तेन निजगता जनकपार्श्वे प्रेषिताः । दूतैस्तत्र गत्वा भामंडल कृते सीता याचिता । किंतु जनकस्तन्नांगीकरोति । ततस्ते जनकं गृहीत्वा चंद्रगतिसमीपे गताः । तत्र चंद्रगतिना जनकयोक्तं-त्वं सीतां देहि । तेनोक्तं सीता तु प्रथमत एंव रामाय मया दत्तास्ति । कि चोत्तमकुलोत्पन्नः स्वकन्या त्वेकवारमेव दीयते । तदा चंद्रगतिना विमृश्योक्तं ममं पार्श्वे वज्रावर्त्तार्णवावर्त्तास्ये द्वे धनुषी बर्त्तते । तयोरुपरि यो बाणं समारोपयेत्स सोतां परिणयतु । जनकोऽपि तत्प्रतिपद्य धनुः सहितो मिथिलायां समागतः । अथ तेन तत्र स्वयंवरमंडपसमारंभः कृतः । तत्रानेकभूचरखेचराश्च समागताः । रामलक्ष्मणावपि समागतौ । तदा विविद्यालंकारवस्त्राभिरामा धनालिमंडिता सौदामिनीव स्वकीयापांगेक्षणः क्षणं क्षोणीभृतां मनांसि क्षोभयंती सीतापि स्वयंवरमंडपे समागता । अथ मंडप मध्यस्थापितवज्रावर्त्तधनुषि बाणमारोपयितुं विश्वैरपि राजकुमारैः प्रयत्नः कृतः । परं कोऽपि तमारोपयितुं समर्थो न बभूव । अथ रामचंद्रेण निजपितुराज्ञया तद्धनुः कमलनालवदा ब्रेडयित्वा तस्मिन् बाणमारोपितं । मिलितसकलराजकुमारहृदयविदारको विहितश्च तेन तस्य टणत्कारः । स्थापिता च तत्क्षणमेव सीतया रामचंद्रकंठे वरमाला । तावता लक्ष्मणेनाप्युच्छायार्णवावर्तधनुः समारोपितुं । तदा तुष्टविद्या शील कुलक सीता कथा ॥८८॥
SR No.090433
Book TitleDanadikulaksangrah
Original Sutra AuthorDevendrasuri
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages292
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy