________________
॥७३॥
पुत्र विज्ञाय स्वसमीपे रक्षितस्तत्र कतवसुदेव परस्पर प्रीतिर्जाता । अथ जगसिंघनामा प्रतिवासुदेवो राजगृहे राज्यं पालयति । तेनैकदा समुद्रविजयायादिष्टं यः कोऽपि सिम्थराजानं बध्वानविष्यति तस्याहं मम पुत्रों जीवां शस्यामि 1 तदा प्रयाणेद्यतं समुद्रविजयं निषिद्धय लघुभ्राता वसुदेव: कंससारथिसहितः सैन्ययुक्तः सिंहरथं जेतुं प्रचचाल । सिंहरथोऽपि सन्मुखमायात । द्वयोः संग्रामो जातस्तदा सिंहरथं भूमौ पतितं कंसतो वसुदेवः स्वनगरं प्रति प्रयाणमकरोत् । इतौ नैमित्तिकेनैकेनागत्य समुद्रविजयाय ज्ञानितमियं जीवयशा विष कन्या श्वसुरपितृकुलयोः क्षयकारिष्यस्ति । अथ वसुदेवो यदा सिहरथयुतो नगरे समायातस्तदा समुद्रविजमेन नैमित्तिकोक्ता वार्त्ता तस्य कथिता । वसुदेवेनोक्तं जरासंघस्यायेऽहं सिंहस्थबंधनकारकं कंसं निवेदयिष्यामि । अथ वसुदेवो सिंहरथयुतो जरासंघपार्श्वे गत्वा सिंहरथबंधनकारकं कंसं निवेदयामास । तथा हृटेन जरासंघन कंसाय जीवयशा परिणायिता, करमोचने च तस्मै मथुरानगरीराज्यं दत्तं । वसुदेवोऽय शौरिपुरे समागतः । कंसेन मथुरायां गत्वा स्वरिता पूर्वर्वरेण कापंजरे क्षिप्तः स्वयं च राज्यं चकार ।
इतः शौरिपुरे वसुदेवो भ्रातृविरोधेन विदेशे गतस्तत्र शतवर्षंमध्ये निजपराक्रमेण तेन द्वासमति सहस्र कन्याः परिणीतास्ततो रोहिण्या: स्वयंवरमंडपे स समुद्रविजयादीनां मिलितः । ततो देवकराजपुत्री देवकी स्वयंवरमंडपे सर्वे यादवाः कंससहिताः समागताः इतः पञ्चान्थुरायां जीवयशागृहेऽतिमुक्तकपिराहारार्थं मागतो देवरत्वेन चोन्मत्तया जीवयशया संतापितोऽवददरे जीवयशे ! त्वं गवं मा कुरु ? यस्याः स्वयंवरमंडपे ते स्वामी गतोऽस्ति
lau