SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ श्री दानादिकूलकवृत्तिः शोल कुलकम् नेमिनाथ चरित्र || २|| 4 तैरुक्तं द्वाविंशतितमस्तीथंकरो भविष्यति । क्रमेण संपूर्णसमये राझ्या श्रावणशुक्लपंचम्यां पुत्रः प्रसूतः । इंद्रादिभिश्च तस्य जन्ममहोत्सवः कृतो द्वात्रिशन्कोटिसवर्णानां च वृष्टिः कना । तत इंद्रादयो देवा नंदीश्वरद्वीपे समा गत्याष्टाह्निकामहोत्सवं कृत्वा स्वस्थान प्राप्ताः । अथ प्रातः प्रियंवदया दास्या राजे पुत्रजगवर्धापनिका दत्ता । हृष्टेन राजा तस्यै पारितोषिकदानपूर्वक महताडंबरेण पुत्रजन्मोत्सवः कृतः । सर्वेऽपि वंदिनो मोचिताः । एवं दशदिवस यावन्महोत्सवं कृत्वा एकादशमे दिने मूतिकर्म समाप्य द्वादशमे दिवसे सर्वजातिपरिवारादीन भोजयित्वा गनारिष्टत्वादरिष्टनेमीति तस्य नाम दत्तं । अब पंचधातृभिः पाल्यमानः प्रभवद्धि प्राप्नुवन् समयं ममयांचकार । इतो मथुरा नगर्यामुद्रसेनराजा, तस्य धारिणी राजी, तस्या गर्भकाले निज भर्तुर्मासास्वादनदोहदोऽभूत् । प्रधानबुद्धियुक्त्त्या तस्या दोहद प्रपूर्व राजा जीवन रक्षितः । पुत्रजन्मावसरे राजादिभिश्चितितं यदेवो गर्भस्थोऽपि यदि पितृसंतापकारको जातस्तदा वृद्धि गतः किं न करिष्यतीति विचार्य तस्यांगुल्यां राजनामांकित मुद्रिका न्यस्य कांस्यपेटायां निक्षिप्य स यमुनायां प्रवाहितः । सा पेटा नद्यां वह माना प्रभाते शौरीपुरपावे समागता । दृष्टा चैकेन व्यवहारिणा गृहिता च । गृहमागत्योद्घाटिता दृष्टश्च तस्यामेको जातमात्रो बाल: । तदंगुलीगतमुद्रिका प्रच्छन्नं रक्षयित्वा तेन सः पुत्रवत्पालितो दत्तं च तस्य कस इत्यभिधानं । अथ वृद्धि गतोऽयं कंसो राजबीजत्वाद् उदातः सन अयव्यवहारिपुत्रान संतापयति । तत्प्रजापुत्कारो राज्ञोऽग्रे गतः, राज्ञा तं व्यवहारिणमाहूय पृष्टं भीतेन तेन तन्मुद्रिकादानपूर्वकं कथितं स्वामिन्नैष मे पुत्रः । समुद्रविजयेन मुद्रिका तस्तमुग्रसेनराज ॥७२॥
SR No.090433
Book TitleDanadikulaksangrah
Original Sutra AuthorDevendrasuri
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages292
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy